This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
,
 
अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमल:.
इत: क्रोडकुलदश्यमानभद्रमुस्तारसामोदः । इतो कममहिष विषाणको-
टिकुलिशभिद्यमानवल्मीकधूलि, इतो वनगजकुलम्, इतो वनमहिप-
बृन्दम्, इतो मृगपतिनखभिद्यमानकुम्भकुञ्जररसितम्, इयमाईपङ्क-
मलिना वराहपद्धतिः, इयमभिनवशष्पकबलरसश्यामला हरिणरो-
मन्थफेनसंहतिः एषा निपतितरुधिरबिन्दु सिक्तशुष्कपत्रपाटला रुरु
पदवी, एष नखकोटिविलिखित विकटपत्रलेखो रुधिरपाटल: करि-
मौक्तिकदलदन्तुरो मृगपतिमार्ग: इयमटवीवेणिकानुकारिणी पक्षच-
रस्य यूथपतेर्मदजलमलिना संचारवीथी, चमरीपङ्क्तिरियमनुगम्यताम्.
त्वरिततरमध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलोक्यतां
दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्,
विमुच्यन्तां श्वानः, इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमू-
हस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् ।
 
अथ नाति चिरादिव गिरिविवरविजृम्भिप्रतिनादगम्भीरेण शबर-
शरताडितानां केसरिणां निनादेन, सरभससारमेयविलुप्यमानावयत्रा-
नामालोलकातरतरलतारकाणामेणकानां च करुणकूजितेन, तरुशि-
खरसमुत्पतितानामाकुलाकुलचारिणां च पत्त्ररथानां कोलाहलेन.
सर्वत: प्रचलितमिव तदरण्यमभवत् । अचिराच प्रशान्ते तस्मिन्मृग-
याकलकले, मन्दीभूतभयोऽहमुपजातकुतूहल: पितुरुत्सङ्गादीपदिव
निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य संत्रासतरलतारक: शैशवा-
त्किमिदमिति समुपजातदिदृक्षतामेव दिशं चक्षुः प्राहिणवम् ।
अभिमुखमापतच तस्मानान्तरात् अन्तकपरिवारमिव परिभ्रम-

 

 
१३
 
*