This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१८३
 
अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयि भविष्यति । यथा च मे सखी-
जनः परिजनो वा न स्मरति, शून्यं वा भवनमालोक्य न दिशो
गृह्णाति, तथा करिष्यसि । पुत्रकस्य मे भवनाङ्गणे सहकारपोतस्य
त्वया मचिन्तयैव माधवीलतया सहोद्वाहमङ्गलं स्वयमेव निर्वर्तनीयम् ।
वासभवने मे शिरोभागनिहित: कामदेवपट: पाटनीय: । पञ्जरबन्ध-
दुःखाद्वराकी कालिन्दी सारिका शुकश्च परिहासो द्वावपि मोक्तव्यौ ।
क्रीडापर्वतक: कस्मै चिदुपशान्ताय तपस्विने प्रतिपादयितव्यः ।
शरीरोपकरणानि मे ब्राह्मणेभ्य: प्रतिपादनीयानि । अपरमपि यत्ते
रोचते. तदपि स्वीकर्तव्यम् । अहं पुनरिमममृतकिरणरश्मिभिर्दग्धशे-
षम् उज्ज्वलचिताज्वालामालिनि विभावसा देवस्य कण्ठलग्ना निर्वापया-
म्यात्मानम्' इत्यभिदधानैव, महाश्वेतां कण्ठे गृहीत्वा, निर्विकारवदनैव
पुनस्तामवादीत् – 'प्रियसखि, तवास्ति कीदृश्यपि प्रत्याशा, यया
पुनः समागमाकाङ्क्षिणी क्षणे क्षणे मरणाभ्यधिकानि दुःखान्यनुभवन्ती
जीवितमलजाकर धारयसि । मम पुनः सर्वतो हताशाया: सापि
नास्ति । तदामन्त्रये प्रियसखीं पुनर्जन्मान्तरसमागमाय' इत्यभिधाय,
चन्द्रापीड चरणौ स्रवत्स्वेदामृतार्द्राभ्यां कराभ्यामुत्क्षिप्याकेन घृतवती ।
 
अथ तत्करस्पर्शेनोच्छुसत इव चन्द्रापीडदेहात् झटिति तुहिन
मयमिव सकलमेव तं प्रदेशं कुर्वाणमव्यक्तरूपं किमपि चन्द्रधवलं
ज्योतिरिवोजगाम। अनन्तरं चान्तरिक्षे क्षरन्तीवामृतमशरीरिणी वाग-
श्रूयत —'वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्वासयितव्या वर्तसे ।
तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसा प्यायमानमविनाशि भूयस्त्वत्स-
मागमनाय तिष्ठत्येव । इदमपरं मत्तेजोमयं स्वत एवाविनाशि विशेष-
p