This page has not been fully proofread.

१८२
 
कादम्बरीसंग्रहः ।
 
क्षितिमुपागमत् । चिराच लब्धसंज्ञापि कादम्बरी तथैव निश्चलस्तब्ध-
दृष्टि, स्तम्भितेव निष्प्रयत्ना निश्वसितुमपि विस्मृता, चन्द्रापीडवदन-
समर्पिताक्षी, स्त्रीस्वभावविरुद्धेन चेतसा तस्थौ ।
 
www
 
तथावस्थितां च तामुन्मुक्तार्तनादां सपादपतनं मदलेखाब्रवीत्
-
'प्रियसखि, प्रसीद, उत्सृजेमं मन्युसंभारमारटन्ती । बाष्पमोक्षेणामुच्य-
मानेऽस्मिन्, नियतमतिभारोत्पीडितं तटाकमित्र सरसमृदु सहस्रधा
स्फुटति ते हृदयम् । अपेक्षस्व देवीं मदिरां देवं च चित्ररथम् । त्वया
विना कुलद्वयमपि नास्ति' इत्युकवतीं मदलेखां कादम्बरी विहस्या-
ब्रवीत् – 'अय्युन्मत्तिके, कुतोऽस्य मे वज्रसारकठिनस्य हतहृदयस्य
स्फुटनम् । यन्नालोक्यैवं सहस्रधा स्फुटितम् । अपि च, या जीवति,
तस्याः सर्वमिदम् – माता पिता बन्धुरात्मा सख्यः परिजन इति ।
-
मया पुनम्रियमाणया जीवितभूतं कथंकथमपि समासादितमिदं प्रियत-
मशरीरम्, यज्जीवदजीवद्वा संभोगेनानुमरणेन वा द्विधापि सर्वदुःखा-
नामेवोपशान्तये । तत्किमिति देवेनागच्छता मदर्थ प्रणांश्चोत्सृजता
सुदूरमारोपितं गुरुतां च नीतमात्मानमश्रुपातमात्रकेण लघुकृत्य पात-
यामि। कंथं स्वर्गगमनोन्मुखस्य देवस्य रुदितेनामङ्गलं करोमि । कथं
वा पादधूलिरिव पादावनुगन्तुमुद्यता हर्पस्थानेऽपि रोदिमि ।
दुःखमेवंविधम् । अधुना तु मे सर्वदुःखान्येव दूरीभूतानि । अस्मिन्स-
मये मरणमेत्र मे जीवितम् । जीवितं पुनर्भरणम् । तद्यदि ममोपरि
स्नेहः करोषि मत्प्रियं हितं वा, तन्ममोपरि स्नेहाबद्रयापि प्रियसख्या
तथा कर्तव्यम्; यथा न तातोऽम्बा च मच्छोकादात्मानं परित्यजतः,
यथा च मयि वाञ्छितं मनोरथं त्वयि पूरयत: ; येन परलोकगताया
 
-
 
कि मे