This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
,
 
अथ महाश्वेतायाः शरीरमुत्सृज्य संभ्रमप्रतिपन्नचन्द्रापीडशरीरा-
याम् 'भर्तुदारिकं, कि लज्जया । पश्य तात्रत् अन्यथैव कथमप्यास्ते
देवश्चन्द्रापीड: । भग्नेवास्य ग्रीवा न मूर्धानं धारयति । विचालितोऽपि
न किंचिञ्चेतयते । नोच्छ्रसिति हृदयेन । हा देव चन्द्रापीड चन्द्राकृते
कादम्बरीप्रिय, क्वेदानीं त्वया विना गम्यते' इत्युक्त्वार्तवचसि तरलि-
कायाम्, तिर्यगाभुग्नचन्द्रापीडमुख निहितनिश्चलस्तब्धदृष्टिनिश्चेष्टायां
महाश्वेतायाम्, 'आ: पापे दुष्टतापसि, किमिदं त्वया कृतम् । अपा-
कृताखिलजगत्पीडस्य तारापीडस्य कुलमुत्सादितम् । अनाथीकृता:
प्रजा: सहास्माभिः । कस्य वदनमीक्षतां लक्ष्मी: । कोऽवलम्बनं भवतु
भूमेः । कथं कथावशेषीभूतोऽसि । धीरस्यापि ते कथं कातरस्येव
शुचा भिन्नं
हृदयम् । देव, प्रसीद, प्रतिपद्यस्व प्राणान् । परित्यज्य च
सर्वान्, एकाकी का प्रस्थितोऽसि' इत्युक्तवत्यारटति परिजने, चन्द्रा-
पीडवदन निवेशितदृशि दीनतरहेषारवकृताक्रन्दे तुरंगमतां मुमुक्षती-
वेन्द्रायुधे, पत्रलेखानिवेदितचन्द्रापीडागमना, व्याजीकृत्य महाश्वेता-
दर्शनं मातापित्री: पुरः प्रतिपन्न शृङ्गारवेषाभरणा, पुर: केयूरकेणोप-
दिश्यमानमार्गा, पत्रलेखाहस्तावलम्बिनी, मदलेखया सह कृतालापै-
बाचेतितागमनखेदा, कादम्बरी चन्द्रापीडदर्शनायोत्ताम्यन्ती, तत्रैवा-
जगाम ।
 
१.८१
 
rib
 
M
 
100
 
,
 
आगम्य चोद्धृतामृतमिव रत्नाकरम् उत्खातकर्णिकमिव कम-
लम्, उन्मुक्तजीवितं चन्द्रापीडमद्राक्षीत् । दृष्ट्वा च तम्, सहसा हा
हा किमिदम्' इत्यवोमुखी धरातलमुपयान्ती कथंकथमपि मुक्ताकन्दया
मदलेखयाधार्यत । पत्रलेखा पुनरुन्मुच्य कादम्बरीकरतलम्, अचेतना