This page has not been fully proofread.

१८०
 
कादम्बरीसग्रहः ।
 
क्षरमवदम् – 'आ: पाप, कथमेवं गदतो मामुत्तमा ते न निपतितं
वज्रम्, अवशीर्णा वा न सहस्रधा जिह्वा । मन्ये च, न सन्त्येव
तेऽस्मिञ्शरीरे सकललोकशुभाशुभसाक्षिभूतानि पञ्च महाभूतानि;
येनैवं वदन्नाग्निना भस्मीकृतोऽसि न वायुना हृतोऽसि, नाम्भसा
प्लावितोऽसिं, न धरित्र्या रसातलं प्रवेशितोऽसि, नापि तत्क्षणमेवाका-
शेनात्मनिर्विशेषतां नीतोऽसि । येनैव खलु हतविधात्रा केनाप्युपदर्शि-
तमुखराग: स्वपक्षपातमात्रप्रवृत्तिरनिरूपितस्थानास्थानवादी शुक इव
वक्तुमेवं शिक्षितः, तेनैव किमु तस्यामेव जातौ न निक्षिप्तोऽसि; येनै-
कान्तहास हेतुरेवं वदन्नपि न क्रोधमुत्पादितवानसि । त्वदुक्ते दुःखिताहं
ते संविभागमिमं करोमि, येनात्मवचनानुरूपा जातिमापन्नो नैवास्म-
द्विधा : कामयसे' इत्युक्त्वा, चन्द्राभिमुखी भूत्वा कृताञ्जलि: पुनरव
'भगवन् परमेश्वर लोकपाल, यदि मया देवस्य पुण्डरीकस्य
दर्शनात्प्रभृति मनसाप्यपरः पुमान्न चिन्तितः, तदानेन मे सत्यवचने-
नायमलीककामी मदुदीरितायामेव जातौ पततु' इति । स च मे वच-
सोऽस्यानन्तरमेव छिन्नमूलस्तरुरिवाचेतनः क्षितावपतत् । अतिक्रान्त-
• जीवितेऽस्मिन् कृताक्रन्दात्तत्परिजना छूतवती यथा असौ
महाभागस्यैव मित्रं भवति' इत्युक्त्वा च त्रपावनम्रमुखी महीं महीयसा-
श्रुवेगेन तूष्णीमेवालावितवती ।
 
दम्
 
,
 
चन्द्रापीडस्य तु तदाकर्ण्य 'भगवति, कृतप्रयत्नायामपि भगव-
त्याम्, अपुण्यभाजास्मिअन्मनि मया न प्राप्तं देव्या: कादम्बर्यावरण-
परिचर्यासुखम् । तज्जन्मान्तरेऽपि वा भगवती संपादयित्री भूयात् '
इति गदत एव स्वभावसरसं हृदयमस्फुटत् ।