This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१७९
 
7
 
मयोपलक्षितः । तन्निवार्यतामयम् यथा पुनरत्र नागच्छति । अथ
निवारितोऽप्यागमिष्यति, तदावश्यमेवास्याभद्रकं भविष्यति' इति ।
स तु निवार्यमाणोऽपि नात्याक्षीदेवानुबन्धनम् । अतीतेषु केषुचिद्दि-
वसेषु, एकदा गाढायां यामिन्याम्, चन्द्रमसि निहितदृष्टिः, 'अपि
नामायमेभिरमृतवर्षिभिरखिलजगदाहलादकारिभिः करैश्चन्द्रमास्तमपि
हृदयवलभं मे वर्षेत्' इत्याशंसाप्रसङ्गेन देवस्य सुगृहीतनाम्नः पुण्डरी-
कस्य स्मरन्ती, जाग्रत्येवातिष्ठम् ।
 
,
 
अध निभृतपदसंचरणम्, आ. चरणादुत्कण्टकम् अनवरतपति-
तमदनशरशल्यनिकरनिचित मित्र शरीरमुद्रहन्तम् दूरीकृतं परलोक-
भीत्या, उन्मादादापतन्तम्, दूरतोऽपि दिवसनिर्विशेषेण चन्द्रातपेन
विभाव्यमानं तमेव युवानमद्राक्षम् ।
 
-
 

 
दृष्टा च तं तादृशम्, निस्पृहाप्यात्मनि परं भयमुपगतवती
चेतस्यचिन्तयम् +- 'अहो कष्टमापतितम् ॥ यद्ययमुन्मादादागत्य पाणि-
नापि स्पृशति मम्, तदा मयेदमपुण्यह्तं शरीरमुत्स्रष्टव्यम् । तच्चि-
राद्देवस्य पुण्डरीकस्य पुनंर्देशन प्रत्याशया दुःखोत्तरमप्यङ्गीकृतं व्यर्थतां
मे यातं प्राणसंधारणम्' इति ।
 
स त्वं चिन्तयन्तीमेत्र मामुपसृत्याब्रवीत् – 'चन्द्रमुखि, हन्तु -
मुद्यतों मामयं कुसुमशरसहायश्चन्द्रमाः । तच्छरणमागतोऽस्मि । रक्ष
मामशरणमनाथमार्तमप्रतीकारक्षममात्मना त्वदायत्तजीवितम् । शर-
णागतपरित्राणं हि तपस्विनामपि धर्म एव ।
तपस्विनामपि धर्म एव । तद्यदि) मामात्मप्रदानेन
 
नात्र संभावयसि तदा । हतोऽहमाभ्यां कुसुमशरशिशिरकराभ्याम्'
इति । अहं तु तदाकर्ण्याविष्टेवात्मानमध्यचेतयमाना, क्रोधावेगरूक्षा-