This page has not been fully proofread.

१७६
 
कादम्बरीसंग्रहः ।
 
स्मरति वास्माकम् ? पृष्टोऽसि वानेन किंचिन्मदीयम् ? उपलब्धो
वाभिप्राय: ? उत्पन्नो वालापो यत्रयोः ? मातापित्रोर्वा संदिष्टं किंचित् ?
परिबोधितो वा त्वयागमनाय' आवेदितं वास्मदीयमागमनम् ? नाप-
यास्यति वा तस्मात्प्रदेशात् ? ग्रहीष्यति वास्मदनुनयम्' आगमिष्यति
वा पुनर्मया सह ? कि कुर्वन्दिवसमास्ते ? को वा विनोदोऽस्य तिष्ठतः ?"
इति ।
 
स त्वेवं पृष्टी व्यज्ञपयत् "देव, देवेन तु 'वैशम्पायनमा-
लोक्य, अनुपदमेव तुरंगमैरागत एवाहम्' इत्यादिश्य विसर्जितोऽहम् ।
अच्छोदसरसः प्रतीपं वैशम्पायनो गत इत्येपान्तरा वाव नोपजाता ।
चिरयति च देवे जलदसमयारम्भमालोक्य, 'कदाचिदेतेपु दिवसेषु
देवेन तारापीडेन कृतप्रयत्नोऽपि न मुच्यत एवागन्तुं देवश्चन्द्रापीड: ।
त्वया चैकाकिना न स्थातव्यमेवास्या भूमौ । परागतप्रायाश्च वयम् ।
तन्निवर्तस्वास्मादेव प्रदेशात्' इत्यभिवाय, पत्रलेखया केयूरकेण च
त्रिचतुरै: प्रयाणकैरप्राप्त एत्राच्छोदं यावद्वलान्निवर्तितोऽस्मि" इति ।
 
एवमावेद्य विरतवचनं तं पुनरपृच्छत् - 'किमाकलयसि, अद्यतनेनाद्वा
यावत्परापतिता पत्रलेखा, न' इति । स तु व्यज्ञपयत् - 'देव, यद्यन्तरा
कश्चिदन्तरायो न भवति विलम्बकारी, तदा विना संदेहेन परापतति ।
एवमवगच्छति मे हृदयम्' इत्युक्तवति मेघनादे, घनसमयवर्धिताभोग-
मकरध्वजार्णवमध्यपातिनीं स्वानुमानात्कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य विक्लबी-
भवत: पर्यावर्तन्तेवास्य जलधरा: कालपुरुषै:, केतकामोदो विषपरि-
मलेन, कुटजतरवः कृतान्तहासै:, अपि च, शरीरेऽपि बलं क्षामतया,
कान्तिर्वैवण्येन, धैर्ये विषादेन, अङ्गान्यसह्तया, करणान्यपाटवेन,
सर्व-
AR