This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१७५
 
,
 
पृष्ठतो हंसै: । पूर्व तुलितनीलोत्पलवनकान्ति नयनयुगलमस्य सलिलं
समुत्ससर्ज, चरममम्भोमुचां बृन्दम् । अपि च, दुस्तरैर्नदीपूरैरेव सहा-
वर्धन्त मन्मथोन्माथा: । वर्षजलविलुलितै: कमलाकरैरेव सह ममज्ज
कादम्बरीसमागमप्रत्याशा । धारारयासहै: कन्दलेरेव सहाभिद्यत हृद-
यम् । ततश्च विततेन स्थलीषु, कलकलेनाम्बुषु, पटुना पर्वततटेषु,
उल्बणेन तालीवनेषु, यथाधारापतनमाकर्ण्यमानेन धारावेणोत्कलिका-
कलितः, न रात्रौ, न दिवा, न ग्रामे, नारण्ये, न वर्त्मनि, नावासे,
न वहन्, न तिष्ठन्, न वैशम्पायन स्मरणे, न कादम्बरीसमागमानु-
ध्याने, न कथंचिदपि, न क्वचिदपि, निर्वृतिमेवाध्यगच्छत् ।
 
,
 
WP
 

 
अनधिगत निर्वृतिश्च धीरस्वभावोऽपि प्रकृतिमेवोत्ससर्ज । प्लावित-
सकलवरात
लैर्धाराजलैरप्यशोष्यत । द्योतितदशदिशा शतहूदालोकेनापि
मूर्च्छान्वकारेऽक्षिप्यत । तथापि सकलजगज्जीवनहेतुनापि जीवितसंदेह-
दोलामारोपितो जलदकालेन, निरुद्धास्वपि जलदकालेनैवाशुगमन विघ्न-
भूतास्वाशासु, कादम्बरीसमागमाशा सुतरां नारुथ्यतास्य, यया
तादृशेऽपि प्रावृकाले कलामप्यकृतपरिलम्बोऽनीयत तं पन्धानम् ।
धाराहति विकूणिताक्षेण च मुहुर्मुहुर्बलितानमिताननेनापचीयमानबल-
जवोत्साहेन वाजिसैन्येनानुगम्यमानः जीवितसंधारणाय यथातथा
निर्वर्तिताशनमात्रकः, दिवसमेव केवलमवहत् ।
 
वहंश्च त्रिभागमात्रावशिष्टेऽध्वनि निवर्तमानं मेघनादमद्राक्षीत् ।
दृष्ट्वा च दूरत एव कृतनमस्कारं तमप्राक्षीत् – 'तिष्ठतु तावत्पुरस्ता-
त्पत्रलेखागमनवृत्तान्तप्रश्नः । वैशम्पायनवृत्तान्तमेव तावत्पृच्छामि ।
अपि दृष्टस्त्वयाच्छोदसरसि वैशम्पायन: ? पृष्टो वावस्थानकारणम् ?
 
1