This page has not been fully proofread.

१७४
 
कादम्बरीसंग्रहः ।
 
च कृतार्थ एत्रास्मि । तदयमेत्र मे मनोरथ: दारपरिग्रहात्प्रतिष्ठिते
त्वयि सकलमेव मे राज्यभारमारोप्य, जन्मनिर्वाहलघुना हृदयेन पूर्वरा-
जर्पिगतं पन्थानमनुयास्यामीति । अस्य च मेऽतर्कित एवायमग्रतः
प्रतिरोधको वैशम्पायनवृत्तान्तः स्थितः । मन्ये च, न संपत्तव्यमेवा-
नेन । अन्यथा क्व वैशम्पायन: । क्व चैवंविधमस्य स्वप्नेऽध्यसंभावनीयं
समाचेष्टितम् । तद्गतेनापि तथा कर्तव्यं वत्सेन, यथा न चिरकालमेष
मे मनोरथोऽन्तर्हृदय एव विपरिवर्तते' इत्यभिधाय, ताम्बूलमर्पयित्वा,
व्यसर्जयत् ।
 
चन्द्रापींडस्तु निर्गत्य शुकनासभवनमयासीत् । तत्र च तनय -
चिन्तापरीतमुन्मुक्तमित्रेन्द्रियै: शुकनासम् अविरताश्रुपातोपहतमुखीं च
मनोरमा प्रणम्य, अग्रतो ढौकितमपि कृतापसर्पणमनाविष्कृतगमनो-
त्साहं दीनमिन्द्रायुधमारुह्य, रयेणैव निरगान्नगर्या: ।
 
निर्गत्य च सिप्रातटे तत्प्रस्थानमङ्गलावस्थानायोपकल्पितं काय-
मानमप्रविश्य, गव्यूतित्रितयमित्र गत्वा, सुलभपयोयत्र से प्रदेशे निवास-
मकल्पयत् । उत्ताम्यता हृदयेनाप्रभातायामेव यामिन्यामुत्थाय, किमपि
किमपि मनसा चिन्तयन् अचेतितक्षुत्पिपासातपश्रमोजागरव्यथः,
दिवा रात्रौ चावहत् ।
 
एवं च वहतोऽप्यस्य दवीयस्तयाध्वनः, अर्धपथ एव, कालसर्पो
वर्त्मन:, मदागमो मकरध्वजकुञ्जरस्य, आशुगमन विघ्नकारी बभूव
 

 
जलदकाल: ।
 
तत्र च प्रथममस्य चेतोहारिभिर्मूळवे गैरन्धकारतामनीयन्त दश
दिश:, ततो जलधरै: । अग्रत: समुल्लुतेन चेतसा क्वाध्यगम्यत,