This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१७३
 
दासङ्गमाबध्यातिदीर्घकालमायुष्मता स्थातव्यम् । अस्य चार्थस्य कृते
साञ्जलिबन्धेन शिरसाभ्यर्थये वत्सम्' इत्यादिशन्तीं स्वमातरं व्यजि-
ज्ञपत्– 'अम्ब, तदा दिग्विजयप्रसङ्गास्थितम् । अधुना पुनरयमेव
कालक्षेपः, यावत्तमुद्देशं परापतामि। तत्पुनश्चिरागमनकता न भाव-
नीया मनागपि हृदये पीडा त्वया' इत्येवं विज्ञप्ता गाढं सुचिरमालिङ्गय,
गच्छद्भिरिव प्राणैः कृच्छ्रान्मुमोच तं माता ।
 
मुक्तश्च मात्रा प्रविश्य पितुर्वासभवनम्, ननाम दूरस्थित एव
पितुः पादौ । अथ तथा प्रणतमालोक्य तम्, पिता अन्तःक्षोभावेगवि-
क्षिप्ताक्षरमवादीत् 'वत्स, पित्राहं दोषेषु संभावित इत्येषा मना-
गपि मनसि वत्सेन दुःखासिका न कार्या । विनयाधानात्प्रभृति समय-
क्परीक्षितौऽस्यस्माभिः । परीक्ष्य च गुणगणैरेवाधिगम्यो राज्यभारस्त्व-
य्यारोपितः, न तनयस्नेहादेव । राज्यं हि नामैतत् नामहासत्वे, नावि-
क्रान्ते, नामहोत्साहे, नाशरण्ये, नाब्रह्मण्ये, नाकृपालौ, पदमेवादधाति ।
यः खलु, समग्रैर्गुणैराकृष्य बलात्प्रतिबन्धमस्य चञ्चलप्रकृतेः कर्तुं
समर्थः, तत्रास्ते । तदनेनैव बोद्धव्यमिदं वत्सेन -- नास्ति मयि दोष
इति । अपि च, संप्रति कस्मिन्भारमवक्षिप्याणुमपि दोषमाचरसि ।
त्वयैव सकललोकानुरञ्जने यतितव्यम् । गतः खलु कालोऽस्माकम् ।
अस्माभिरस्खलितैश्चिरं पदे स्थितम् । न पीडिताः प्रजा लोभेन । नोंद्वे-
जिता गुरखो मानेन । न हतः परलोकः कामेन । राजधर्मोऽनुरुद्धः,
न स्वरुचि: । वृद्धा: समासेविताः, न व्यसनानि । सतां चरितान्य-
नुवर्तितानि, नेन्द्रियाणि । वृत्तं रक्षितम्, न शरीरम् । अकार्यपरिहा-
रात्कार्यानुष्ठानाच्चोपार्जितः परोऽपि लोक इति चेतसि मे । त्वजन्मना
 
1