This page has not been fully proofread.

१७२
 
कादम्बरीसंग्रहः ।
 
यथा सर्व एव ग्रहाः स्थिताः, तथास्मन्मतेन देवस्य गमनमेव वर्तमाने
न शस्यते । अपरमपि, कर्मानुरोधाद्राजेच्चैव काल: । तत्र न कार्य-
मंत्राहर्निरूपणया । राजा कालस्य कारणम् । यस्यामेव वेलायां चित्त-
निर्वृतिः, सैव वेला सर्वकार्येषु' इति विज्ञापिते मौहूर्तिकैः, पुनस्तान-
ब्रवीत् – 'तातेनैत्रमादिष्टमिति ब्रवीमि । अन्यत्, आत्ययिकेषु कार्येषु
कार्यपराणा प्रतिक्षणोत्पादिषु च दिवसनिरूणैव कीदृशी तत्तथा
कथयत, यथा श्व एव गमनं भवेत्' इत्यभिधाय, निर्वर्तित शरीरस्थितिः,
तं दिवसमेका च यामिनीं कथं कथमप्यस्थात् ।
 
MS
 
अथास्तमुपगतवति तेजसा पत्यौ, संध्यानलस्फुलिङ्गनिकर इव
स्फुरति तारागणे, उदयगिरिवर्तिनि नक्षत्रनाथे, प्रस्थानमङ्गले प्रणा-
मायोपगतं चन्द्रापीडं विलासवती मन्युरागावेगगद्गदिकोपरुध्यमानाक्षर-
मत्रादीत्—'तात, युज्यते ह्यङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरी-
यसी हृदयपीडा । मम पुनर्नेहशी प्रथमगमनेऽपि त पीडा समुत्पन्ना,
यादृशी तव गमनेनाधुना । दीर्यते इव मे हृदयम् । निर्यातीव
प्राणा: । न किंचित्समादधाति धीः । सर्वमेव शून्यं पश्यामि । धृतो-
ऽपि बलादागच्छति मे बाष्पोत्पीड: । मुहुर्मुहुः समाहितापि मङ्गल-
संपादनाय ते चलति मति: । किं निमित्तं चेयमीदृशी मे हृदयपीडे-
त्येतदपि न वेद्मि - किं बहुभ्यो दिवसेभ्यः कथमप्यागतो मे वत्सो
झटित्येव पुनर्गच्छतीति, उत वैशम्पायनवृत्तान्तादात्मन एव दुःखित-
तयेति । न चैवंविधयापि पीडया वैशम्पायनानयनाय गच्छतस्ते
- गमनं निवारयितुं पारयति वाणी । हृदयं पुननच्छत्येव त्वदीयं गम-
नम् । तदीदृशीं मे पीडां विज्ञाय यथा पुरा स्थितम्, न तथा क्वचि
 

 
,