This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१७१
 
चन्द्रापीडस्तु प्रविश्य कृतनमस्कारो मातुः समीपे समुपविश्य,.
मनोरमामाश्वास्यावादीत् – 'अम्ब, समाश्वसिहि । वैशम्पायनानयनाय
तातेन मे गमनमादिष्टम् । तत्कतिपयदिवसान्तरितवैशम्पायनाननदर्श-
नोत्सुकं मामविकल्पं विसर्जय त्वम्' । सा त्वेवमभिहिता प्रत्युवाच
'तात, किमात्मगमनवचसा मां समाश्वासयसि । कः खलु मे त्वयि
तस्मिंश्च विशेषः । तदेकधा तमेकं न पश्यामि कठिनहृदयम् । त्वयि
पुनर्गते, यदपि तस्यादर्शने जीवित निर्गमप्रतिबन्धहेतुभूतं त्वदर्शनम्,
तदपि दूरीभवति । तन्न गन्तव्यं वत्सेन । एकेनापि हि युवयोरावां पुत्र-
वत्यौ । अपि नागतो नामासौ निष्ठुरात्मा' इत्युक्तवत्यां मनोरमायाम्,
विलासवती धीरमुवाच -'प्रियसखि, तव मम चैत्रमेतत् यथा त्वयो-
क्तम् । अयं पुनर्वैशम्पायनेन विना कं पश्यतु । तदास्ताम् । किमेन
निवारयसि । वारितेनाप्यनेन नैत्र स्थातव्यम् । मन्ये च पित्राप्यय-
मेतदेवाकलय्य गमनायानुमोदितः । तद्यातु । वरमावयोः कतिपय -
दिवसान् अनयोरयदर्शनकृतान्केशाननुभवितुम्, न पुनरस्य वैशम्पा-
यनाननानवलोकनंदुःखदीनं दिने दिने वदनमीक्षितुम् । तदुत्तिष्ठ,
गच्छावो गमनसंविधानाय वत्सस्य चन्द्रापीडस्य' ।
 
m
 
es
 
+
 
-
 
इत्यभिदधत्येव मनोरमां हस्ते गृहीत्वोत्थाय, चन्द्रापिीडेनानु-
गम्यमाना निजावासमयासीत् । चन्द्रापीडोऽपि मातु: समीपे गमना-
लापेनैव क्षणमित्र स्थित्वा गृहमगात् । तत्र चापनीतसमायोगो गम-
नायोत्ताम्यता हृदयेन गणकानाडूय रहस्याज्ञापितवान्– 'यथा बिना
परिलम्बेन मे गमनं भवति, तथा भवद्भिरार्यशुकनासाय पृच्छते
ताताय वा दिनमावेदनीयम्' इति । एवमादिष्टास्ते व्यज्ञापयन्–'देव,,
 
1