This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१६९
 
मोहान्धं चेतो भ्राम्यदवश्यमेव स्वलति । स्खलिते च चेतसि, तलग्ना
पतत्येव लज्जा । त्रपावरणशून्ये च हृदि प्रविश्य पदं कुर्वन्केन वा
निवारितो दुर्निवार: सर्वाविनयहेतुः कुसुमधन्वा । तन्मोहविषयविषम-
हाही तारुण्यावतारे सर्वस्यैव स्खलितमापतति । किमेवमार्येण लाल-
नीयस्य पालनीयस्य 'शिशुजनस्योपर्यावेशो गरीयान्गृहीतः, यदनुचित -
मपत्य स्नेहस्याक्रोशगर्भमेवमुक्तम् । स्वप्नायमानानामपि यद्गुरूणां मुखेभ्यो
निष्कामति शुभमशुभं वा, शिशुषु तदवश्यं फलति । गुरवो हि
दैवतं बालानाम् । यथैवाशिषो गुरुजनवितीर्णा वरतामापद्यन्ते, तथै-
वाक्रोशाः शापताम्। तद्वैशम्पायनमुद्दिश्य कोपावेशादेवमतिपरुषम-
भिदधत्यार्ये, महती मे चेतसः पीडा समुत्पन्ना । 'स्वयमारोपितेषु तरुषु
तावदुत्पद्यते स्नेहः । किं पुनरङ्गसंभवेष्वपत्येषु । तदुत्सृज्यतामयममर्त्र-
वेगो वैशम्पायनस्योपरि । विरूपकं तु तन न किंचिदप्या चरितम् ।

सर्वपरित्यागं कृत्वा स्थित इत्येतदपि कारणमविज्ञाय किमेवे दोषपक्षे
निक्षिपाम: । कदाचिद्गुणीभवत्येवमयमविनयनिष्पन्नो दोष एव । आनी-
यतां तावदसौ बुध्यामहे किमर्थमयमेवंविधस्तस्य वयसोऽनुचितोऽपि
संवेग उत्पन्नः । ततो यथायुक्तं विधास्यामः' ।
 
इत्युक्तवति तारापीडे, पुन: शुकनासोऽभ्यधात् - 'अत्यु -
दारतया वत्सलत्वाचैवमादिशति देवः । अन्यदतः परं किमिवास्य
विरूपकं भवेत् यद्यवराजमुत्सृज्य क्षणमण्यन्यत्रावस्थानमात्मेच्छया
चेष्टितम्' इत्युक्तवति शुकनासे, चन्द्रापीड : शनैः शनैः शुकनास-
मवादीत् - 'आर्य, यद्यपि निरुक्तितो वेद्मि
 
न मदीयेन दोषेण
संभावितमेव । कस्य
 
नागतो वैशम्पायन इति । तथापि तातेन