This page has not been fully proofread.

१६८
 
कादम्बरीसंग्रहः ।
 
चेतसि । 'मातुरहमेवैको जीवित निबन्धनम्, कथं मया बिना वर्तिष्यते'
इत्येतस्य नृशंसस्य हृदये नापतितम् । 'पिण्डप्रदो वंशसंतानार्थमह
मुत्पादित: पित्रा, कथमननुज्ञातस्तेन सर्वपरित्यागं करोमि' इत्येतदपि
यथाजातस्य न बुद्धौ संजातम् । तदेवमसत्पथप्रवृत्तेन दुर्दर्शमदृष्टं
तावन्न नाम कुदृष्टिना दृष्टम् । दृष्टमपि येन न दृष्टम् तस्याज्ञा-
नतिमिरान्धस्य किं क्रियताम् । अपरम्
असौ तिर्यमहता यत्नेन
 
"
 
शुक इव पाठितः पुष्टश्च देवेन । अथवा विनोददानात्तिरश्चामपि सफल
एव शिक्षणायासो भवति । तेऽपि पोषिताः पोषितरि स्नेहमाबध्नन्ति ।
तेषामपि सहजन्मस्नेहो मातापित्रोरपरि दृश्यत एव । अपि च, ईदृशा-
चरितेन तेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यम् । सर्व एव
ह्याक्षिप्तचेताः प्रवर्तते स्वहिताय परहिताय च । तस्य तु पुनरस्मानेवं
दुःखं स्थापयतो न स्वहितं नापि च परहितम् । किमनेनैवमात्महा
कृतमिति मतिरेव तावन्न बोधपदवीमवतरति । सर्वथा दुःखायैवास्माक
तस्य पापकर्मणो जन्म' इत्युक्त्वा निश्वसन्नेवावतस्थे ।
 
तदवस्थं च तं तारापीड : प्रत्युवाच – 'एतत्खलु प्रदीपेनाम्नः
प्रकाशनम्, व्यजनानिलैरतिवर्धनं प्रभञ्जनस्य, यस्मद्विधैः परिबोध-
नमार्यस्य । तथापि प्राज्ञस्यापि सत्त्ववतोऽप्यवश्यं दुःखातिपातेन
विशुद्धमपि वर्षसलिलेन सर इत्र मानसं कलुषीक्रियत सर्वस्य । येन
ब्रवीमि । अन्यदस्मत्तो लोकवृत्तमार्य एव सुतरां वेत्ति । किमस्ति
कश्चिदसावियति लोके, यस्य निर्विकारं यौवनमतिक्रान्तम् । यौवनाव-
तारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । दोर्द्वयेनैव सह स्थूल-
तामाप्रद्यते धीः । आकारेणैव सहाविर्भवन्ति हृदयाद्विकाराः । विकृतं च
 
4