This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१६७
 
भ्रातुः सुहृदश्च ते वृत्तान्तमाकर्ण्य, त्वद्दोषमाशङ्कते मे हृदयम्'
इति ।
 
एवंवादिनो नरपतेर्वचनमाक्षिप्य, युगपच्छोकामर्षाभ्यामन्धकारि
ताननः शुकनासोऽब्रवीत् – 'देव, यदि चन्द्रमस्यूष्मा, महोदधौ वा
शोष:, संभाव्यते ततो युवराजेऽपि दोषः । तत्किमेवमनिरूप्य तस्या-
नात्मज्ञस्य मित्रद्रुहः कृतघ्नस्य कृते कृतयुगावतारयोग्यमात्मनोऽपि गुण-
वन्तं चन्द्रापीडमेत्रं संभावयति देवः । न ह्यत: परमपरं कष्टतरं किचि
दपि पीडाकारणम्, यद्गुणेषु वर्तमानो दोषेषु संभाव्यते इतरजनेनापि,
किं पुनर्गुरुजनेन । अपि च, जन्मनः प्रभृति देवस्य देव्या विलासव-
त्याश्चाङ्कलालनया यो न गृहीतः, तस्य मरुत इत्र दुर्ग्रहप्रकृतेश्चन्द्रा-
पीडोsपि कि करोतु । स्वयमेवोत्पद्यन्ते एवंविधा: शरीरसंभवा महाकृ-
मयः, सर्वदोषाश्रया महाव्याधयः । ये सकलङ्काः कृपाणा इव
स्नेनैव पारुष्य भजन्ते । सरागा: पलवा इत्र दिवसारूढ्यैवापरज्यन्ते ।
भूतिपरामृष्टा दर्पणा इवाभिमुख्येन सर्वे प्रतीपं गृह्णन्ति । ये च
स्निग्धेष्वपि क्षाः, ऋजुष्वपि वक्राः, स्त्रीष्वपि शूराः, भृत्येष्वपि
क्रूराः, दीनेष्वपि दारुणाः। येषां च विपरीतानां गुरव एव लघव:,
नीचा एवोच्चैः, कुदृष्टिरेव सद्दर्शनम्, दौ: शील्यमेत्र सुशीलता, अनृत-
मेव सत्यम् । येषां च क्षुद्राणां प्रज्ञा पराभिसंधानाय न ज्ञानाय,
पराक्रम: प्राणिनामुपघाताय नोपकाराय, उत्साहो धनार्जनाय न
यशसे, धनपरित्यागः कामाय न धर्माय । किं बहुना, सर्वमेव येषां
दोषाय न गुणाय । तदसावपीदृश एव कोऽप्यपुण्यवानुत्पन्नः, यस्यैवं
कुर्वत: 'मित्रमहं चन्द्रापीडस्य, कथं तस्य द्रोहमाचरामि' इति नोत्पन्नं
 
MAR
 
-
 
M
 
-