कादम्बरीसङ्ग्रहः /171
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
१६५
यिनीदर्शनोत्सुको विनापि
संवृत्य प्रावर्तत गन्तुम् ।
प्रयाणनान्द्या सकल एव कटकलोक:
आत्मनाप्यलब्धनिद्रा विनोदः, अवतरत्येव
तृतीये यामे, राजलोकेन सहावहत् । अथाध्वनैव सह क्षीणायां
यामवत्याम्, रसातलादिवोन्मज्जत्सु सर्वभावेषु, पलव इवोद्भिद्यमाने
पूर्वाशालताया दिवसकर बिम्बे, कटकलोकेनैव सह परापतितवानु-
ज्जयिनीम् ।
9
अर्थ दूरत एव दत्तकतिपयशून्यपदैश्च महाकष्टशब्दमुखरैश्च,
दुःखाधिक्याहितमौनैश्च, निःस्पृहैरपि, उदासीनैरपि, दुर्जनैरपि, स्नेहपर-
वशैः, पितृभिरिव सुहृद्भिरिव च, नगरीनिर्गतैः, आर्त्या पृच्छयमानं
च कथ्यमानं च वैशम्पायनवृत्तान्तमेव समन्ताच्छुश्राव ।
9
शृण्वंच चकार चेतसि - 'बाह्यस्य तावज्जनस्येयमीदृशी सम-
वस्था । किं पुनर्येनासावङ्केन लालितः संवर्धितो वा । तदतिकष्टं
मे वैशम्पायनेन विना तातस्य शुकनासस्याम्बाया मनोरमाया वा
दर्शनम्' इत्येवं चिन्तयन् नासानिहितोद्वाष्पदृष्टिः, अदृष्ट सर्ववृत्तान्त
एव विवेशोज्जयिनीम् । अवतीर्य च स राजकुलद्वारि विशन्नेव 'आर्य-
शुकनासभवनं सह देव्या विलासवत्या गतो राजा' इति शुश्राव ।
श्रुत्वा च निवर्त्य तेत्रैव जगाम । गच्छंश्च समीपवर्ती, 'हा वत्स वैश-
म्पायन, अद्यापि मदकलालनोचितो बाल एवासि । कथं त्वमेकाकी
व्यालशतसहस्रभीषणे निर्मानुषे तस्मिञ्शून्यारण्ये स्थितः । केन ते
तत्रापि शरीररक्षा कृता । केन शरीरस्थिति: संपादिता । केन निद्रा-
सुखदायि शयनीयमुपकल्पितम् । कस्त्वयि बुभुक्षिते तृषिते सुषुप्सति
वा दुःखितः 1, ममोत्सङ्गमुत्सृज्य समानसुखदुःखा वधूरपि न. पुत्रक,