This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
११
 
लानि प्रतिवसन्ति स्म । यै: परिणामविरलदलसंहतिरपि स वनस्प-
तिरविरलदलनिचयश्यामल इवोपलक्ष्यते दिवानिशं निलीनैः । ते च
तस्मिन्वनस्पतावतिबाह्यातिवाह्य रजनीमात्मनीडेपु, प्रतिदिनमुत्थायो-
त्थायाहारान्वेषणाय नभसि विरचितपतयः, दिवसकररथतुरगप्रभा-
नुलिप्तमिव गगनतलमुपपादयन्त:, संचारिणीमिव मरकतस्थली विड-
म्वयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्म शुकशकुनयः ।
कृताहाराश्च पुनः प्रतिनिवृत्यात्मकुलायावस्थितेभ्यः शाबकेभ्यो विवि
धान्फलरसान्कलममञ्जरीविकारांश्च चञ्जपुटेन दत्वा दत्त्वा, अधरी-
कृत सर्वस्नेहेनासाधारणेन गुरुणापत्यप्रेम्णा तस्मिन्नेव क्रोडान्तर्निहित-
तनया: क्षपा: क्षपयन्ति स्म ।
 
एकस्मिंश्र जीर्णकोटरे जायया सह निवसतः पश्चिमेवयसि
वर्तमानस्य कथमपि पितुरहमेवैको विधिवशात्सूनुरभवम् । अति-
प्रबलया चाभिभूता ममैत्र जायमानस्य प्रसववेदनया जननी मे
लोकान्तरमगमन। अभिमत जायाविनाशशोकदुःखितोऽपि खलु तात.
सुतस्नेहा दन्तर्निगृह्य पसरमपि शोकम्, एकाकी मत्संवर्धनपर एवा-
'भवत् । अतिपरिणतवयाश्च अवस्त्रस्तांसदेशशिथिलामपगतोत्पतन-
संस्कारां पक्षसंततिमुहन्, उपारूढकम्पतया च संतापकारिणीमङ्ग-
लग्नां जरामिव विधुन्वन् स्फुटिताग्रकोटिना चञ्जुपुटेन परनीडनिपति-
ताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय तरुमूलनिपतितानि
शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रमितुमशक्तो महाम-
दात् । प्रतिदिवसमात्मनाचं मदुपभुक्तशेषमकरोदशनम् ।
 
एकदा तु प्रभातसंध्यारागलोहिते अपरजलनिधितटमवतरति
 
4