This page has not been fully proofread.

I
 
१६२
 
कादम्बरीसंग्रहः ।
 
अत्र तु पुनस्तिष्ठतः, यदेतदन्तर्हृदये किमप्यनवसीयमानं परिवर्तते मे,
येनैव विधृतोऽस्मि, तेनैवावश्यं धार्यन्ते प्राणा इति चेतसि मे 1
तदलं निर्बन्धेन । गच्छन्तु भवन्तः । भवतु यावज्जीवमा तृप्तेश्व-
न्द्रापीडदर्शनसुखम् । अल्पपुण्यस्य तु तन्मे प्राप्तमपि करतलादेव-
माच्छिद्य दैवेन नीतम्' इत्यभिदधानश्च कौतुकात् 'किमेतत् ?
येनैवं भाषसे। नायासि देवस्य चन्द्रापीडस्य समीपम् ?" इत्यस्माभिः
पुन: पुन: पृष्टोऽभ्यधात् 'लज्जेऽहमेवं वक्तुम् । तथापि शपामि
वयस्यचन्द्रापीडस्यैव जीवितेन - यदि किंचिदपि जानामि, यत्केन
कारणेन न शक्नोम्यतो गन्तुमिति । अपि च, भवतामपि प्रत्यक्ष एवायं
वृत्तान्त: । तद्व्रजन्तु भवन्तः' इत्युक्त्वा तूष्णीमभूत् ।
 
9
 

 
मुहूर्तादिव चोत्थाय किमपि नष्टभिवान्विष्यन् बभ्राम ।
भ्रान्त्वा च चिरमिव खिन्नान्तरात्मा सनिवेदमूर्ध्न निश्वस्य, तस्मिन्
लतागहने पुनरुपत्रिश्य, तस्थौ । वयमपि तत्प्रतिबोधनप्रत्याशया
स्थिता एव । गतवति समधिक इव यामद्वये, शरीरस्थितिकरणाया-
स्माभिरभ्यर्थितः प्रत्युवाच
'वयस्यचन्द्रापीडस्य खल्वमी स्वजी-
वितादपि बलभतरा: प्राणा: । तद्यदि बलादपि परित्यज्य मां गच्छ-
न्ति, तथाप्येषां संधारणे मया प्रयत्नः कार्य: । किं पुनरगच्छतामेव ।
चन्द्रापीडदर्शनेनैव चाहमर्थी, न मृत्युना । तदभ्यर्थनैवात्र निष्फला'
इत्यभिधायोत्थाय, स्नात्वा, कन्दमूलफलैर्वनवासोचितां शरीरस्थिति-
मकरोत् । निर्वर्तितशरीरस्थितौ तस्मिन् वयमपि कृतवन्तः । अने-
नैव च क्रमेण विस्मितान्तरात्मानो रात्रौ च दिवा च 'किमेतत्' इति
तद्वृत्तान्तमेवानुभावयन्तो दिनत्रयं स्थित्वा, निष्प्रत्याशा आगता