This page has not been fully proofread.

१६०
 
कादम्बरीसंग्रहः ।
 
Wy
 
कथं वा भवद्भिर्बलादपि नानीतोऽसौ' इत्येतदवगन्तुमुत्ताम्यति मे हृद-
यम्' इति । ते चैत्रं पृष्टा व्यज्ञपयन्– 'देव, श्रूयतां यथावृत्तम्-
गतवति देवे, तस्मिन्दिवसे न दत्तमेव प्रयाणं स्कन्धावारेण । अन्य-
स्मिन्नहनि, आहतायां प्रयाणभेर्याम् प्रातरेवास्मान्वैशम्पायनोऽभ्य-
धात्— 'अतिपुण्यं ह्यच्छोदाख्यं सरः पुराणे श्रूयते । तदस्मिन्नात्वा
प्रणम्य भगवन्तं महेश्वरं ब्रजाम: । दिव्यजनसेविता केन कदा पुनः
स्वप्नेऽपि भूमिरियमालोकिता' इत्यभिधाय, चरणाभ्यामेवाच्छादसरस्ती-
रमयासीत् । तत्र चातिरम्यतयैव सर्वतो दत्तदृष्टिः संचरन्, आस्पद -
मिव सर्वरमणीयानाम्, अन्यतमं तटलतामण्टपमद्राक्षीत् ।
 
'येन
 
दृष्टवा च तम्, अतिचिरान्तरितदर्शनं मुहृदमिवानन्यष्टर्विस्मृत
निमेषेण चक्षुषा विलोकयन्, स्तम्भित इव, किमप्यन्तरात्मना
स्मरन्निव गलितलोचनपयोधारासंतान:, तूष्णीमधोमुखस्तस्थौ । तथा
वस्थितं च तमवलोक्य, अस्माकमुदपादि चेतसि चिन्ता
केनचिदंपयिन्त एत्र रसिकहृदया: परिणामधीरमतयोऽपि, कि पुनः
कुतूहलास्पदे प्रथमे वयसि वर्तमानाः । तस्मान्नियतमियमस्येमा-
मतिमनोहरां भूमिमालोक्य भावयतो हृदयविकृतिरीदृशी जाता'
इति । चिराञ्च तमेवमवदाम वयम् 'दृष्टो दर्शनीयानामवधिरेषः ।
 
M
 
तदुत्तिष्ठ । संप्रति निर्वर्तयाम: स्नानविधिम् । अतिमहती बेला ।
सज्जीभूतं साधनम् । प्रयाणाभिमुखः सकल: स्कन्धावारस्त्वां प्रति-
●पालयन्नास्ते । किमद्यापि विलम्बितेन' इति । स त्वेवमुक्तोऽप्यस्माभिः,
अश्रुतास्मदीयालाप इत्र तमेव केवलमनिमेषपक्ष्मणा चक्षुपा लतामण्ड-
पमालोकितवान् ।
 
y