This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१५९
 
सा धारणमकरोत् । तुरगादवतारितं च पार्थिवैर्वृतमात्मानं तदानीं,
न वेदितवान् ।
 
उपलब्धसंशोऽपि च वैशम्पायनस्यादर्शनात् 'किमारटामि, किं
हृदयमवष्टभ्य तूष्णीमासे, किमात्मानमाहत्य हृदयात्प्राणैर्वियोजयामि,
किमेकाकी कांचिद्दिशं गृहीत्वा प्रवजामि' इति कर्तव्यमेव नाध्यग-
च्छत् । चकार च चेतसि 'अहो मे रम्योऽप्यरमणीय: संवृत्तो
जीवलोकः । वसन्त्यपि शून्यीभूता पृथ्वी । सुरक्षितमपि मुषितं जीवि-
तफलम् । कं पश्यामि । केन सह मुखमासे । किमद्यापि मे जीवितेन,
कादम्बर्यापि । वैशम्पायनस्य कृते क्व गच्छामि । को मे ददातु पुन-
स्तादृशं मित्ररत्नम् । कथं मया तातस्य शुकनासस्य चात्मा वैशम्पाय-
नेन विना दर्शयितव्य: । किमभिधाय च तनयशोकविहलाम्बा मनो-
रमा वा संस्थापयितव्या । किं भूमि: काचिदसिद्धा, तां साधयितुं
पश्चात्स्थितः' इत्येतानि चान्यानि चान्तरात्मना चिरमधोमुख एव
विकल्प्य कृच्छ्रादिव तानप्राक्षीत् - 'मय्यागते, किं कश्चिदेवंविधो-
ऽन्तरे संग्राम उत्पन्न: ? व्याधिर्वा कश्चिदाशुकार्यसाध्यरूप: समुपजात: ?
येनैतदतर्कितमेव महावज्रपतनमुपनतम्' इति ।
 
ते त्वेवं पृष्टाः सर्वे सममेव करद्वयापिहितश्रुतयो व्यज्ञपयन्---
'देव, शान्तं पापम् । देवशरीरमिव साग्रं वर्षशतं ध्रियते वैश-
म्पायनः' इति । एतदाकर्ण्य चोज्जीवित इवानन्दबाष्पनिर्भर :, संभाव्य
तान्सर्वानेव कण्ठगृहेण, अवादीत् 'जीवतो वैशम्पायनस्यान्यत्र
क्षणमध्यवस्थानमसंभावयता मयैवं पृष्टा भवन्तः । तज्जीवतीत्येतानि
तु तावत्कर्णे कृतान्यक्षराणि । अधुना 'किं वृत्तमस्य ?' येनासौं नागतः ।