This page has not been fully proofread.

१५८
 
कादम्बरीसंग्रहः ।
 
रुत्सार्य तिमिरमालां विरहविधुरां कमलिनीमियालोकयितुमुदयगिरि-
शिखरमारूढे भगवति सप्तलोकचक्षुषि सप्तत्राहे, दृष्टिप्रसरक्षमायां
वेलायाम् सहसैवागृतोऽर्धगव्यूतिमात्र एव रात्रिप्रयाणकायातम्,
आयासितायततरदृष्टिभिरण्यदृष्टपर्यन्तम्, संचारिणं द्वितीय मित्र मेदिनी-
संनिवेशम्, स्कन्धावारमद्राक्षीत् ।
 
दृष्ट्वा च 'अहो भद्रकं भवति, यद्यचिन्तितागमन एवं प्रविश्य
वैशम्पायनं पश्यामि' इत्येवं चिन्तयित्वा मूर्धानमावृत्योत्तरीयेण,
रय विशेषग्राहिणेन्द्रायुधेन स्कन्वावांरमाससाद । प्रविशंश्च प्रत्यावासकं
वहन्नेत्र 'कस्मिन्प्रदेशे वैशम्पायनावासः' इति पप्रच्छ । ततस्तत्संनिहि-
ताभिः स्त्रीभिः, इतरत्वादप्रत्यभिज्ञाय, यथारब्धकर्मव्यगाभिरेवोद्वाष्प-
-
शून्यवदनाभि: 'भद्र, कि पृच्छसि कुतोऽत्र वैशम्पायन:' इत्यावेद्य-
'मानः, 'आः पापाः, किमेवमसंबद्धं प्रलपथ' इति शून्यहृदय एवं ताः
प्रतारयन् अन्तभिन्नहृदयत्वान्नापराः पृच्छन्, न किंचित्पश्यन्, न
किंचिद्वदन् क्वागतोऽस्मि, किमर्थमागतोऽस्मि, किंवा करोमि,
इति सर्वमेवाचेतयमानः, अन्ध इव, मूक इव, कटकमध्यदेशं याव-
तादृशेनैव वेगेनावहत् ।
 
,
 
9
 
-
 
अथेन्द्रायुधप्रत्यभिज्ञानात् 'देवश्चन्द्रापीडः' इति समन्तात्ससंभ्रम-
प्रधावितानामुद्वाष्पशून्यदृष्टीनां राजन्यसहस्राणां मुखान्यवलोक्य, 'क्व
वैशम्पायन:' इत्यपृच्छत् । ततस्ते सर्वे सममेव विचार्य, 'अस्मिंस्तरु-
तलेऽवतरतु तावद्दवः । ततो यथावस्थितं विज्ञापयाम:' इति न्यवेद-
यन् । चन्द्रापीडस्य तेन तेषां स्फुटाख्यानादपि कष्टतरेण वर्चसान्त:-
शल्यगर्भ स्फुटितमित्र हृदयमासीत् । केवलं तत्कालप्रणयिनी मूर्च्छा
 
-
 
wp