This page has not been fully proofread.


 
१५४
 
कादम्बरीसंग्रहः ।
 
,
 
तां भूमि यावत्पत्रलेखामादाय केयूरकेण सहाग्रतो गच्छ। अहमपि
वैशम्पायनमालोक्यानुपदमेव ते तुरङ्गमैः परागतः' इत्यादिश्य, गमन-
प्रणामोत्थितं केयूरकं सस्नेहमाहूय परिष्वज्य च, आत्मकर्णादपनीय
कर्णाभरणम् अस्य कर्णे कृत्वा, गद्गदिकागृह्यमाणाक्षरमवादीत्-
केयूरक, त्वया तु मे देवीसंदेशो नानीत एव । तत्किं तव हस्ते
तदनुरूपं प्रतिसंदिशाम्यपूर्वम् । विज्ञापयितव्या देवी । तत्रापि किमली-
कलज्जाजालभारोहनेन त्वामायासयामि । यात्येव पत्रलेखा देवीपाद -
मूलम् । इयं विज्ञापयिष्यति' इत्यभिदधदेव, पत्रलेखां प्रणयेनाभिमुखो
भूत्वा बद्धाञ्जलिरभापत
'पत्रलेखे, साञ्जलिबन्धेन शिरसा प्रणम्य
 
,
 
मदीयन विज्ञाप्या देवी कादम्बरी —– येन सर्वखलानां धुरि लेखनीयेन,
तथा प्रथमदर्शनेऽपि वत्सलत्वात्स्वभावस्य दर्शितप्रसादातिशयां देवीं
प्रणामेनाप्यसंभाव्य आगन्छता, प्रज्ञा जडतया, गौरवं लघुतया,
प्रियंवदता पारुष्येण कृतज्ञता कृतघ्नतया, सर्वगुणा एव दोषैः परि -
वर्तिताः; स कथमिवापरं गुणमवलम्ब्य पुनः परिग्रहाय विज्ञापयतु ?
केन चाङ्गीकरोतु देवी? तदेवमात्मना सर्वगुणहीनस्यापि मे देवीगुणा
एवावलम्बनम् । इयमेव ते स्वभावसरसा दूरस्थमपि मदनहुतभुजा
दह्यमानं रक्षत्येव सरलता । आनयत्येव स्थिरप्रतिज्ञता । संभावयत्येव
महानुभावता । आलपयेव प्रियवादिता । यच तथापि गत्वा
निर्लज्जहृदय: पुनर्वदनदर्शनसाहसमङ्गीकरोमि अत्रापि सत्प्रकृतयो
देवीप्रसादा एव कारणम् । एते हि उदारभावात् क्षणपरिचिता अपि
समारोपितजीवितप्रत्याशाः, न किंचिन कारयन्ति । शिक्षयन्ति
सेवाचातुर्यम् । लज्जापसृतं हठादाकृष्योपसर्पयन्ति । यया वानपेक्षित-