This page has not been fully proofread.

१०
 
कादम्बरीसंग्रहः ।
 
स्त्याश्रमस्य नातिदूरे जलनिधिपानप्रकुपितवरुणोत्साहितेनागस्त्यम-
त्सरात्तदाश्रमसमीपवर्त्यपर इव वेवसा महाजलनिधिरुत्पादितः, अम्बु-
रुहमधुपानमत्त कलहंसकामिनीकृतकोलाहलम्, अनिलोल्लासितकल्लोल-
शिखरशीकरारब्धदुर्दिनम्, एकदेशावतीर्णमुनिजनापूर्यमाणकमण्डलु-
कलकलध्वनिमनोहरम्, उदवासितापसानां देवतार्चनोपयुक्तकुसुमाभि-
लेतामण्डपतलस्थितशिखण्डिमण्डलारब्धताण्डवाभिरनेककुसुमपरिमल-
वाहिनीभिर्वनराजिभिरुपरुद्रतीर म्, अपरसागराशङ्किभि: सलिलमादा-
तुमवतीर्णैर्जलधरैरित्र बहलपङ्कम
लिनैर्वनकरिभिरनवरतमापीयमानस-
लिलम्, अगाधम्, अप्रतिमम्, अपां निधानं पम्पाभिधानं पद्मसर : ।
 

 
तस्यैवंविधस्य पद्मसरसः पश्चिमे तीरे दिग्गजकरदण्डानुका-
रिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव, दिक्चक्र-
वालपरिमाणमिव गृह्णता भुवनान्तरालविप्रकीर्णेन शाखासंचयेन प्रल-
यकालताण्डवप्रसारितभु जसहस्रमुडुपतिशकलशेखरमिव विडम्बयितु-
मुद्यत:, परिपीतसागरसलिलैगगनागतै: शाखान्तरेषु निलीयमानैः-
क्षणमम्बुभारालसैराकृितपल्लत्रैर्जलघरपटलैरप्यदृष्टशिखरदेश:,
या नन्दनवनश्रिय मित्रावलोकयितुमभ्युद्यतः, नलिननाभ इव वनमा-
लोपगूढ, नवजलधरव्यूह इव नभसि दर्शितोन्नतिः, अखिलभुवन-
तलावलोकनप्रासाद इव वनदेवतानाम्, अधिपतिरित्र दण्डकारण्यस्य,
महान् जीर्ण: शाल्मलीवृक्ष: ।
 
तुङ्गत-
4
 
तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंधिषु जीर्ण-
वल्कलविवरेषु महावकाशतया विस्रब्धविरचितकुलायसहस्त्राणि दुरा-
रोहतया विगलितविनाशभयानि, नानादेशसमागतानि शुकशकुनिकु-