This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१५३
 
"
 
त्योपविश्य, चन्द्रापीडं व्यज्ञपयत् - 'देव, उपदर्शितपाण्डुच्छवि: प्राचीव
चन्द्रोदयमवस्थैवेयमावेदयति नि:संशयं देवस्य गमनम् । अवश्यं च
देवस्य देवीप्राप्त्या भवितव्यम् । केन कदावावलोकितो ज्योत्स्नारहित-
श्चन्द्रमा: । किंतु यावद्वैशम्पायन: परापतति, याचच तेन सह गमनसं-
विधानं निरूपयति देव. तावदवश्यं फालक्षेपेण भाव्यम् । यादृशी
चाकालक्षमा देव्याः शरीरावस्था, तादृशी निवेदितैव मया । सर्वोऽपि
प्रत्याशया धार्यते । देव्यास्तु पुनर्देवदर्शनेऽद्य यावन्निष्प्रत्याशमंत्र हृदयं
केनाश्वासनेन वर्तताम् । मद्वार्तोपलम्भादेतदुत्पत्स्यते चेतसि, यथा-
• अस्ति कार्य मे जीवितेन । दुःखान्यपि सहन्ती धारयाम्येतत्' इति ।
अतो विज्ञापयामि । चेतसा त्वग्रतो गत एव देव:, शरीरणाप्यनुपद-
मुचलित पत्र । किमपरं मयात्र स्थितेनापि साधनीयम् । तद्देवागमनो-
त्सवावेरनाय गमनानुज्ञया प्रमादं क्रियमाणमिच्छति में प्रणयप्रसाद-.
दुर्लटितं हृदयमिदानीमेव' ।
 
इति विज्ञापिते केयूरकेण, अन्त: परितोपविकसितया दृष्ट्या
दर्शितप्रसादचन्द्रपीड: प्रत्युवाच
• किमुच्यते । कस्यापरस्येदृशी
देशकालज्ञता । को वापरोऽस्मास्वेचं निर्व्याजभक्तिः । तत्साधु चिन्ति-
तम् । गम्यता देव्याः प्राणसंधारणाय । मदागमनप्रत्ययार्थ च पत्र-
लेखाप्यग्रतस्त्वयैव सह यातु देवीपादमूलम् । इयमपि प्रसादभूमिरेव
देव्याः' इत्यभिवाय पृष्ठतः समुपविष्टाम् ' एवं न' इति पत्रलेखामप्रा-
क्षीत् ।
 

 
कृतप्रस्थितिनिश्चयाया च तस्याम् मेवनादमाहूय सोपग्रहमादि-
देश – 'मेघनाद, यस्यां भूमौ पत्रलेखानयनाय पूर्व मया त्वं स्थापितः,