This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१५२
चदनं दर्शयितव्यम् ।
 
पृष्टेन वा किमुत्तरं दातव्यम् । अपि च, सु
बहुदिवसप्रवासोपतप्तः स्कन्धावारोऽपि मेऽद्यापि न परापतति । तेना-
परसंविधानादर्धपथादेव निवृत्य पुनर्धावितव्यम् । अथावेद्य तातस्याम्बा-
याच, ताभ्यां च विसर्जितः, संविधानेन गच्छामि । तत्रापि किं कथ-
यामि – मम स्नेहेन गन्धर्वराजपुत्री कादम्बरी दुःखं तिष्ठतीति, किं
वा बलवान्मे तस्यामनुरागः, नानया विनाहं प्राणान्संवारयामीति ।
अपरोऽपि वा कश्चिद्वयपदेशो न शक्यत एव पुनर्गमनाय कर्तुम् ।
अकथयित्वा च गमनकारणम् कथमात्मानं मोचयामि । कथं वा
मुञ्चतु तातोऽम्बा वा । तत्सुहृत्साध्येऽस्मिन्नर्थेऽनर्थपतितः किं करोम्ये-
काकी । वैशम्पायनोऽप्यसंनिहितः पार्श्वे मे । कं पृच्छामि। केन सह
निरूपयामि । को मे समुपदिशतु । को वापरो मयि दुःखिते दुःखी,
सुखिते सुग्वी। को वापरो मयानुकोपितं तातमन्त्रां च परिबोध्यमां
नेतुं समर्थ : ' इति ।
 
THE
 
एवं चिन्तयत एवास्य सा क्षपा दुःखदीर्वापि क्षयमगमत् ।
प्रातरेव च किंवदन्तीं शुश्राव, यथा किल दशपुरं यावत्परागतः
स्कन्धाचार इति । तां च श्रुत्वा समुच्छ्रसितचेताश्चकार चेतसि -
'अहो धन्योऽस्मि, अहो विधेर्भगवतोऽनुग्राह्योऽस्मि, यस्य मेऽनुध्याना-
नन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायनः' इति । प्रहपेपरवशश्च
प्रविशन्तमालोक्य दूरत एव कृतप्रणामं केयूरकमवादीम्—'केयूरक,
करतलवर्तिनीं सिद्धिमधुनावधारय । प्राप्तो वैशम्पायनः' इति ।
 
स तु तदाकर्ण्य, गमनपरिलम्बकृतया चिन्तयान्तःशून्य एव
'भद्रकमापतितम् । महती हृदयनिर्वृतिदेवस्य जाता' इत्यभिदधदेवोपस -
 
.
 
www.