This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१५१
 
पातिता वयं खल्वनेनाकार्यकारिणा दग्धवेधसा । तथापि देवीं संभा-
वयितुं प्रयतामहे' ।
 
इत्यभिदधत्येव चन्द्रापीडे, भगवांस्तिग्मदीधितिः संजहार कर-
सहस्रम् । अथ भगवति चन्द्रमसि उदयगिरिशिखरमारूढे, चन्द्रापी-
डस्तस्मिन्नेव वल्लभोद्याने चन्द्रमणिशिलातले विमुच्याङ्गानि, चरण-
संवाहनोपसृतं केयूरकमवादीत् – 'केयूरक, किमाकलयसि । याव-
द्वयं परापताम:, तावत्प्राणान्संधारयिष्यति वा देवी कादम्बरी। आग-
मिष्यति वा पुनस्तत्समाश्वासनाय महाश्वेता । द्रक्ष्यामि वा पुनस्तस्याः
समुत्त्रस्तहरिणशाबकायताक्षं मुखम्' इति ।
 
एवं वदन्, तमादिदेश विश्रान्तये केयूरकम् । आत्मनापि
गमनचिन्तां प्राविशत् 'यदि तावदकथयित्वा अनिपत्य चरणयोर-
गृहीताशी : सहसानुत्संकलित एव तातेनाम्बया वापक्रम्य गच्छामि,
ततो गतस्यापि मम कुता वा फलावाप्तिः कीदृशी वा हृदयनिर्वृतिः ।
अथवा तिष्ठतु । तावदियमुत्तरकालागामिनी चिन्ता । अपक्रम्य गत
एवं कथमहम् । तातेन स्वभुजादवरोग्य मय्येव राज्यभार : समारो-
पितः । तदनाख्याय पदमपि निर्याते मयि, अवश्यं सेवापरा राजानः,
सुखपरिभुक्ताः प्रजा अपि, पृष्ठतो लगन्तीति मे चेतसि । अपि च,
तातस्यापि कोऽपरोऽम्ति, यस्मिन्मदीयं स्नेहं संक्रमग्य, मय्यपक्रान्ते,
'यातु फिमनेन गतेनागतेन वा' इत्यविनयकोपितोऽवष्टम्भं कृत्वा
स्थास्यति । ताते च पृष्टतो लग्ने, अष्टादशद्वीपमालिनी मेदिन्येवलग्ना
भवति । तदा मया का गतम् । का स्थितम् । क्व विश्रान्तम् । क्व
भुक्तम् । क्वात्मा मया गोपायितव्यः । समासादितेन वात्र कथं मया