This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
स्थगयति । दिवसावसानेषु विश्लेपमीता मृणालसूत्रैश्चित्रभित्तिविलिखि-
तानि चक्रवाकमिथुनानि संवटयति ।
 
१४९
 
,
 
अपि च तस्याश्चन्दनपरिमल इव दक्षिणनिलेन सह समा-
गच्छति मोहः । प्रतिरुतानीव वलभीकपोतकूजितैः सहाविर्भवन्ति
दुःखानि । तथा च जलकणिकेत्र पद्मिनीपलाशस्थिता कम्पते ।
नलिनीव शशिकरस्पर्शन म्लायति । चन्द्रमूर्तिरिव कमलप्रकरस्वलित-
पादपलवा संचरन्ती निशां नयति । कुमुदिनीव रजनिकरकिरणकृत-
प्रजागरा दिवसमलीकनिद्रयातिवायति । किंबहुना । संप्रति तस्याः,
त्वन्नामा सर्वसखीजन:, वहृत्तान्तमुखर परिजन:, त्वदालाप -
निर्मिताः सर्वविनोदाः, त्वदाकारमयश्चित्रकलाभ्यासः, त्वदुपालम्भगर्भा
मागधीमङ्गलगीतयः, त्वदर्शनपुनरुक्ताः स्वप्नाः त्वन्नामग्रहणैकोपाय--
गम्यप्रबोधा मोहमहावेगा:' इत्यावेदयन्तं केयूरकम् ' भवतु, संप्रति न
शक्तोम्यतः परं श्रोतुम्' इति आमीलनाद्दत्तसंज्ञेव चन्द्रापीडमाक्रामन्ती
मूर्च्छा न्यवारयेत् ; न तु पुनरवस्थानिवेदनपरिसमाप्तिः ।
 
,
 
M
 
तथा मूर्च्छानिमीनितश्च तामेवानुध्यायन्निव ससंश्रमप्रतिपन्नशरी-
रेण केयूरकेण संभाविततावृन्तया च पत्रलेखयानुभाव्यार्थसज्जया च
नियत्या संज्ञां लम्भितश्चन्द्रापीड स्वकृतपीडापराधेन भीतमिव लज्जित-
मित्र निभृतस्थितं केयूरकमन्तर्बाष्पोपरुध्यमानकण्ठः कथमपि स्खलिता-
क्षरं प्रत्युवाच – 'केयूरक, येन प्रकारेणैवमेकान्तनिष्ठरहृदयमात्मन्यनुत्प-
न्नानुरागमेव मां संभाव्य देव्या कादम्बर्या दूरीकृतपुनर्मदागमनसंभा-
वनया न त्वमागमनायादिष्टः, न संदिष्टं वा किंचिन्महाश्वेतया समुप-
हृतानुबन्धया मदलेखया वा त्वन्मुखेन नोपालन्धोऽस्मि, तथा मयि
 
-
 
,