This page has not been fully proofread.

१४८
 
कादम्बरीसंग्रहः ।
 
wantys asm
 
कुलमते: केयूरकस्य विज्ञापनाकर्णनावधानदानेन प्रसादं कर्तुमर्हति
देवः । देव, श्रूयताम् – यदैव ते प्रथमागमनेनामोदिना मलयानिलेनेव
चलितं समस्तमेव तत्कन्यकालतावनम्, तदैव सकलभुवनमनोभिरामं
भवन्तमालोक्य समारूढवान्मकरकेतनस्ताम् । इदानीं तु महान्त-
मायासमनुभवति त्वदर्थे कादम्बरी । चित्रं चेदम् । मकरकेतुहुत-
भुजा दह्यमानमध्यग्निशौचमंशुकमित्र नितरां निर्मलीभवति लावण्यम् ।
मन्ये च, मृदुस्वभावमपि जलमिव मुक्ताफलतामुपगतं कठिनीभव-
त्युत्कण्ठितं हृदयमबला जनस्य; यत्तादृशेनातिसंतापेनापि न चिलीयते ।
बलवती खलु वल्लभजनसंगमाशा; यत्तथाविधमप्यनुभववेदनाविह्वल-
तप्राणमतिकष्टं प्राण्यते । किं करोमि । कथय, कथं कथ्यते, कया
युक्तथा प्रकाश्यते, कतमया वेदनयोपमयते बलवती तदुत्कण्ठा ।
स्वप्नेषु विगलितवेदना: स्फुटं प्राणिनः; प्रतिदिनं दृश्यमानोऽपि यन्त्र
पश्यसि तामीदृशीमवस्थाम् । प्रचण्डकिरणसहस्रातपसहानि कमानि
शयनीकृतानि म्लानिमुपनयन्त्या दिवसकरमूर्तिरपि निर्जिता तथा
निजोष्मणा । मुहुर्लतामण्डपम चिवसति । मुहुः स्थलनलिनीवनमधि-
शेते । मुहुरुपवनसरोजलमवगाहते । तस्मादुत्याय तमालवीथमुपैति ।
एवंप्रायैश्च मदनदुश्चेष्टितायासै: परिणाममुपैति दिवसः ।
 
S
 
चन्द्रोदये चास्यास्तिमिरमयीवापैति धृतिः । कमलमयमिव दृयते
हृदयम् । कुसुदमय इव विजृम्भते मकरकेतनः । चन्द्रकान्तमयमिव
प्रक्षरति नयनयुगलम् । न विज्ञायते, किं मुग्धतया, किमुन्मादेन,
संगीतकमृदङ्गध्वनितेषु केकाशङ्कया धारागृहमरकतमणिमयूरमुखानि