This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
लेखां चारोप्य, स्वभवनमयासीत् । तत्र च निषिद्धाशेषराजलोकप्रवेशः,
प्रविश्य वल्लभोद्यानम्, सपरिवारेण केयूरकेण सहोत्ताम्यता चेतसा
अचेतितमेव दिवसकरणीयं निर्वर्तयामास । निर्वर्त्य च पत्रलेखाद्वितीय:
केयूरक माहूयाब्रवीत् –'केयूरक, कथय देव्याः कादम्बर्या: समदले-
स्वाया महाश्वेतायाश्च संदेशम्' ।
 
ww
 
इत्यभिहितवति चन्द्रापीडे, पुर: सप्रश्रयमुपविश्य, केयूरकोऽ-
प्यगादीत् -- 'देव, किं विज्ञापयामि । नास्ति मयि संदेशलवोऽपि
देव्या: कादम्बर्या:, समदलेखाया महाश्वेताया वा । यदैव पत्रलेखां
मेघनादाय समर्प्य, आगतेन प्रतिनिवृत्य मयायं देवस्योज्जयिनीगमन-
वृत्तान्तो निवेदितः, तदैवोर्ध्वे विलोक्य, दीर्घमुष्णं च निश्वस्य, सनि-
दम् 'एवमेतत्' इत्युक्त्वोत्थाय, महाश्वेता पुनस्तपसे स्वमेवाश्रम -
पदमाजगाम । देव्यपि कादम्बरी झटिति हृदये द्रुघणेनेवाभिहता,
उन्मुक्तेव चान्ता:करणेन, अविदित महाश्वेतागमनवृत्तान्ता, चिरमित्र
स्थित्वा 'महाश्वेतायाः कथय' इति सासूयमित्र मामादिश्य, मदलेखाया
पुनर्वलितमुखी, 'सविलक्षस्मितम् 'मदलेखे, अस्ति केनचिदपरेणैतत्कृतं
करिष्यते वा यत्कुमारेण चन्द्रापीडेन' इत्येवमभिदधती, उत्थाय शय-
नीये निपय, उत्तरवाससोत्तमाङ्गमत्रगुण्ठ्य, निर्विशेषहृदयवेदनां मद-
लेखामध्यनालपन्ती, सकलमेव तं दिवसमस्थात् । अपरेयुश्च प्रातरेवो-
पसृतं माम् ' एवं दृढतरशरीरेषु ध्रियमाणोष्वेव भवत्सु, अहमीदृशीमव-
स्थामनुभवामि' इत्युपालभमानेव चिरमालोकितवती । तथा दृष्टश्च
दुःखितया देव्या, आदिष्टमेव गमनायात्मानं मन्यमानोऽहम्, अनिवेद्यैव
देव्यै, देवपाइनुलमुपागतोऽस्मि । तच्च देवैकशरणजनजीत्रित परित्राणा-
"
 
,
 
१४७