This page has not been fully proofread.

१४६
 
कादम्बरीसंग्रहः ।
 
न लज्जायाः । शरीरस्थितात्रेवानादरं कृतवान् ; न कुलक्रम स्थितौ ।
सुखमेवावधीरयामास; न धैर्यम् । एवं चास्य गम्भीरप्रकृतेः सरि-
त्पतेरिव चन्द्रमसा सुदूरमुल्लास्यमानस्यापि मर्यादावशादात्मानं स्तम्भ-
यतः, कथंकथमपि कतिपयेष्वतिक्रान्तेषु वासरेषु, एकदा निर्गय बहि-
र्नगर्याः, सिप्रातटान्यनुसरन्नातिदूरमिव चरणाभ्यामेत्र बभ्राम। भ्राम्यंश्च
रुद्रतनयायतनम्, रयेणागच्छत: सावष्टम्भया गया, स्खलतोऽपि
पततोऽपि यथाशक्ति सादिभिरुत्पीडितान्, निःसहतया दूरागमनखे-
दम् अतित्वरया आगमन कार्यगौरवमावेदयतो दूरादेवातिबहूनिव तुरंग-
मानद्राक्षीत् । दृष्टा चोत्पन्नकुतूहल:, तेषां परिज्ञानायान्यतमं पुरुषं
प्राहिणोत् । आत्मनाप्यरुदनेन पयसोत्तीर्य सिप्राम्, तस्मिन्नेव भग-
वतः कार्तिकेयस्यायतने तत्प्रतिवार्ता प्रतिपालयन्नतिष्ठत् ।
 
तत्रस्थश्च कुतूहलात्तस्मिन्नेव वाजिबृन्दे निक्षिप्तदृष्टिः, पार्श्व-
स्थितां हस्तेनाकृष्य पत्रलेखामवादीत् 'पत्रलेखे, पश्य, य एष
 
पुर एव मयूरपिच्छमय्या छत्त्रिकया दुर्विभाववदनोऽश्ववारः, ज्ञायते
केयूरकोऽयम्' इति । यावत्तया सहैवं निरूपयत्येव, तावत्तस्मात्प्रहित-
पुरुषादुपलब्धात्मावस्थानम्, विषादशून्येन मुखेनान्तर्दु: खसंभारपिशु-
नया च दृष्ट्या दूरत एवापृष्टामपि कष्टां कादम्बरीसमवस्थामनक्षर-
मावेदयन्तं केयूरकमद्राक्षीत् । दृष्टा च दर्शितप्रीति : 'एह्येहि' इत्याहूय
परिष्वज्य, पुनः पुनः सस्पृहमालोक्य, केयूरकमवादीत् – 'केयूरक,
त्वदर्शनेनैव भद्रं देव्याः सपरिवाराया इत्येतदावेदितम् । आगमन-
कारणमपि विश्रान्तः सुखितः कथयिष्यसि' इत्युक्त्वा करिणीमारुह्य,
'कुतोऽस्य जनस्य सुखिता' इत्यभिदधानमेत्र केयूरकं पृष्ठतः पत्र-
,
 
w