This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
रूपानुरूपलीलासंभावनया च तावतो मनोरथस्याप्यात्मन उपर्यसं-
भावनया च सर्वे सहजमेवैतदस्या इति विकल्पसंशय
दोलाधिरूढं
मां ग्राहयता, एवमीदृशस्य देव्या दुःखस्य तब चोपालम्भस्य हेतुतां
नीतोऽस्मि । मन्ये च ममापि मनोव्यामोहकारी कोऽपि शाप एवा-
यम् । अन्यथा अप्रबुद्धबुद्धेरपि येषु न संदेह उपपद्यते, तेष्वपि स्फुटेषु
मदनचिह्नेषु कथं मे धीर्व्यामुह्येत् । तिष्ठन्त्वेष तावदतिसूक्ष्मतया
दुर्विभाववृत्तीनि तानि स्मितावलोकितकथित विकृतलीलालज्जायितानि,
यान्यन्यथापि संभवन्ति । चिरानुभूतात्मकण्ठसंसर्गसुभगं हारमिममक-
तपुण्यस्य मे तत्क्षणमेव कण्ठे कारयन्त्या किमित्र नावेदितम् । अपि
च, हिमगृहकवृत्तान्तस्तु तवापि प्रत्यक्ष एव । तत्किमत्र प्रणयकोपा-
क्षिप्तयाप्यन्यथा व्याहृतं देव्या । सर्व एवायं विपर्ययान्मम दोषः । तद -
धुना प्राणैरप्युपयुज्यमानस्तथा करोमि यथा नेहशमेकान्तनिष्ठुरहृदय
जानाति मां देवी' इति ।
 
१४४
 
HAP
 
कृतप्रणामा व्यज्ञापयत्
 
शति
 
पृष्ठतः
 
एवं वदत्येव चन्द्रापीडे, अश्रावितैष प्रविश्य वेत्रहस्ता प्रतीहारी
'युवराज, एवं देवी विलासवती समादि-
• कृतजत्पात्परिजनतः श्रुतं मया, यथा किल
स्थिताद्य पत्रलेखात्र पुन: परागतेति । न च मे त्वय्यस्यां च कश्चि-
दपि स्नेहस्य विशेषो विलसति । मयैवेयं संवर्धिता । अपि च, तवापि
कापि महती वेला वर्तते दृष्टस्य । तदनया सहित एवागच्छ । मनो-
रथशतलब्धमतिदुर्लभं ते मुखकमलालोकनम्' इति ।
 
चन्द्रापीडस्तु तदाकर्ण्य, चेतस्यकरोत् - 'अहो संदेहदोलारूढ
मे जीवितम् । एवमम्वा निर्माणमपि मामपश्यन्ती दुःखमान्ते । पत्रलेखा-
24