This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१४३
 
णमन्त्रेणेव विषमूर्छिता झटित्युन्मील्य नयने सस्पृहं मामवलोक्य, 'क:
प्रदेशेऽस्मिन् ' इति परिजनमपृच्छत् ।
 
अथ धवलवसनोल्लासितगात्रयष्टयो द्वारप्रदेशसंपिण्डिताङ्ग्य:
कन्यका: समधावन् । आज्ञाप्रतीक्षासु च तासु क्रमेण दृष्टिं पातयन्ती
मरकतशिलातले न्यषीदत् । अब्रवीच्च 'पत्रलेखे, न खलु प्रिय-
मिति ब्रवीमि । त्वामेव पश्यन्ती संधारयामि जीवितमहम् । तथापि
यद्ययं ते गृहः, तत्साधय समीहितम्' इत्यभिधाय मां व्यसर्जयत्' ।
 
इत्यावेद्य च, किंचिदिव नमितमुखी शनै: पुनर्व्यजिज्ञपत्
 
• देव, प्रत्यगूदेवीप्रसादातिशयाहितप्रागल्भ्या दुःखिता च विज्ञापयामि ।
देवेनाप्येतदवस्थां देवीं दूरीकुर्वता किमिदमापन्नवत्सलाया: स्वप्रकृते-
अनुरूपं कृतम्' इति । चन्द्रापीडस्तु तथोपालम्भगर्भे विज्ञप्त: पत्रले-
ग्वया, तं च कादम्बर्याः साभ्यर्थनं च सनिर्वेदं च सानुरागं च सोपा-
लम्भं च ललितमपि प्रौढमालापमाकर्ण्य, उत्प्रेक्ष्योत्प्रेक्ष्य च दुर्विषह-
दु.खबाष्पोप लुतायताक्षं तन्मुखम्, स्वभावधीरप्रकृतिरपि नितरां पर्या-
कुलोऽभवत् ।
 
$
 
अथ कादम्बरीशरीरादिवालापपदैरेव सहागत्य युगपद्गृहीतो हृदये
मन्युना, कण्ठे जीवितेन, चक्षुषि च बाष्पेण, तुल्यवृत्तिर्भूत्वा काद-
म्चर्या, क्षरद्वाष्पविक्षेपपर्याकुलाक्षरमुच्चैः प्रत्युवाच 'पत्रलेखे, किं
करोमि । अनेन दुरात्मना दुःशिक्षितेन पण्डितंमन्येन अलीकधीरेण
स्वयंकृतमिथ्याविकल्पशतसहस्त्रभरितेनाश्रद्दधानेन मूढहृदयेन, यद्यदेवा-
नेकप्रकारं शृङ्गारनृत्ताचार्येण भगवता मनोभवेनान्तर्गत विकारावेद-
नाय मामुद्दिश्य बाला बलात्कार्यते तत्तदेवादृष्टपूर्वत्वाद्दिव्यकन्यकानां
 
-