This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१४२
करो: । कुमतिरियम् ।
 
अतिदारुणोऽयं पापकारी मकरकेतुः कदा-
चिददृश्यमाने प्रियजने, जनितहृदयानुरागो जीवितमप्यपहरति' इत्य-
बवीत् । - एतदपि नास्त्येव मे । मदनेन वा, दैवेन वा, हृदयेन वा,
अन्येन वा केनापि दत्त: संकल्पमय: कुमारो जनसंनिधावपि केनचि-
दविभाव्यमानः, सिद्ध इव सर्वदा मे ददाति दर्शनम् । अपि च,
असांबिव नायमकाण्डपरित्यागनिष्टहृदयः । अयमेवास्मद्विरहकातरः ।
पश्यामि चाहर्निशमासीना उत्थिता भ्राम्यन्ती शयाना जाग्रती शयने
मण्डपे उद्यानेषु क्रीडापर्वतके च यथा तं विप्रलम्भकं कुमारम्. ते
तथा कथितमेव मया । तदलमनया तदानयनकथया' इत्यभिदधाना,
पक्ष्माग्रसंपिण्डितनयनजलवर्षिणी, तथैव वेदिकाविताननाभिदामांशु-
कावलम्बियां बाहुलतिकायामाननमुपावेश्य तूष्णीमुत्कीर्णेव तस्थौ ।
अहं तु तच्छ्रुत्वा समचिन्तयम्
'सत्यमेव गरीयः खलु
जीवितालम्बनमिदम्, विनोदश्च वियोगिनीनाम् - यदुत संकल्पमय:
प्रियः, नितरां कुलाङ्गनानां विशेषतः कुमारीणाम् । नैनमन्धकाररा-
शिरन्तरयति । न जलधरधारापात: स्थगयति' इत्येवं चिन्तयन्त्या एव
मे रक्ततामगादिवस: ।
 
www
 
अत्रान्तरे चागत्य स्वं स्वं नियोगमशून्यं कुर्बाणा:, दूरतो दीपि-
काधारिण्यो बालिका: पर्यवारयन् । अथ निर्मललावण्यलक्षितानि
दीपिकाप्रतिबिम्बानि ज्वलितानि मदनसायकशल्यानीवाङ्गलग्नानि समु
 
तां पुनर्व्यजिज्ञपम् – 'देवि, प्रसीद । नार्हस्यखेदा हृदय-
वेदकारिणं संतापमङ्गीकर्तुम् । संहर मन्युवेगम् । एषाहमादाय चन्द्रा-
पीडमागतैव' इति । अथानेन देवनामग्रहणगर्भेण मद्वचसा विषापहर-
P