This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१३९
 
वता ते वरो दत्त: । का चात्र गुरुजनवक्तव्यता ? यदा खलु कन्यकां
गुरुरित्र पञ्चशर: संकल्पयति, मातेवानुमोदते, पितेव ददाति, सखी-
वोत्कण्ठां जनयति, धात्रीव तरुणतायां रत्युपचारं शिक्षयति । कति
वा कथयामि ते, याः स्वयं वृतवत्य: पतीन् । यदि च नैवम्, अनर्थक
एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवर विधिः । तत्प्रसीद । देवि, अलममुना
मरणानुबन्धेन । पादपङ्कजस्पर्शन । संदिश, प्रेषय माम् ।
पत
यामि, आनयामि देवि, ते हृदयदयितम्' इति ।
 
आल
 
WA
 
कुतः प्राग
 
एवमुक्ते मया, प्रीतिद्भवार्द्रया दृष्ट्या पिबन्तीय मां प्रहर्षविलान्त:-
करणापि कन्यकाजनसहजां लज्जामिवावलम्ब्य शनैरवदत्
ते गरीयसीं प्रीतिम् । केवलमकठोरशिरीषपुष्पमृदुप्रकृतेः
लभ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाज: कुमारीलोकस्य ।
मन्ये साहसकारिण्यस्ताः, याः स्वयं संदिशन्ति समुपसर्पन्ति वा ।
स्वयं साहसं संदिशन्ती बाला जिहेमि । किं वा संदिशामि? अतिप्रि-
योऽसीति, पौनरुक्त्यम्। तवाहं प्रियात्मेति, जडप्रश्न: । त्वयि गरीया-
ननुराग इति, वेश्यालापः । त्वया विना न जीवामीति, अनुभववि
रोध: । अवश्यमागन्तव्यमिति, सौभाग्यगर्व: । स्वयमागच्छामीति.
स्त्रीचापलम् । अनन्यरक्तोऽयं परिजन इति, स्वभक्तिनिवेदनलाघवम् ।
प्रत्याख्यानशङ्कया न संदिशामीति अप्रबुद्धबोधनम् । ज्ञास्यसिं
मरणेन प्रीतिमिति, असंभाव्यमेव
नितमंदभाण्यनया में नाराभवात्
 
,
 
निताल
 
न्।
 
** *
**)
 
'जानामि