This page has not been fully proofread.

१३८
 
कादम्बरीसंग्रहः ।
 
w
 
एतानि खलु कुसुमचापस्य चापलानि शठस्य न देवस्य' इत्येवमु
क्तवतीं मां पुनः सकुतूहला सा प्रत्यभाषत — 'योऽयं कामः कोऽपि
वा, कथय, कानि कान्यस्य रूपाणि' इति । तामहं व्यजिज्ञपम् -
'देवि, कुतोऽस्य रूपम् । अतनुरेष हुताशनः । तथा हि — अप्रका-
शयन् ज्वालावली: संतापं जनयति । अप्रकटयन्धूमपटलमनु पात-.
यति। न च तद्भूतमेतावति त्रिभुवने, अस्य शरशव्यतां यन्न यातं
याति यास्यति वा । को वास्य भ्रश्यति । गृहीतकुसुमकार्मुको बाणैर्ब-
लवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां
चिन्तया प्रियमुखचन्द्रसहस्राणि, संकटमम्बरतलम् । लिखन्तीनां
दयिताकारानू, अविस्तीर्ण महीमण्डलम् । गणयन्तीनां वल्लभगुणान्,.
अल्पीयसी संख्या । शृण्वतीनां प्रियतमकथाम्, अबहुभाषिणी सर-
स्वती । ध्यायन्तीनां प्राणसमसमागमशतानि, हूसीयान्कालो हृदयस्या--
पतति' इति ।
 
संत
 
एतदाकर्ण्य च, क्षणं विचिन्त्य, प्रत्यवादीत् 'पत्रलेखे.
यथा कथयसि, तथा जनोऽयं कारितः कुमारे पक्षुपातं पञ्चेषणा ।
यान्यस्यैतानि रूपाणि, समधिकानि वा तानि मयि वर्तन्ते । हृदया-
दव्यतिरिक्तासि । इदानीं भवतीमेव पृच्छामि । उपदिश त्वम्, यदत्र
मे सांगतम् । एवंविधानां वृत्तान्तानामनभिज्ञास्मि । अपि च, मे गुरु-
जनवक्तव्यतां नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेय.
पश्यति हृदयम्' इति ।
 
1
 
एवंवादिनीं भूयस्तामहमेत्रमवोचम्
किमनेनाकारणमरणानुबन्धेन । अनाराधितप्रसन्नेन कुसुमशरेण भग-
. 'अलमलमिदानीं देवि,
 
h