This page has not been fully proofread.

१३६
 
कादम्बरीसंग्रहः ।
 
मुष्णं च निःश्वसितवती । तद्दुःखकारणमुत्प्रेक्षमाणझा च कथनाय
पुनः पुनरनुबध्यमाना मया, ब्रीडया नखमुखलिखितकेतकीदला लिखि-
त्वेव वक्तव्यमर्पयन्ती, विवक्षास्फुरिताघरा क्षितितलनिहितनिश्चलनयना
मुचिरमतिष्ठत् ।
 
अनुहा
 
क्रमेण च भूयो मन्मुखे निधाय दृष्टिम् कथमपि व्यहाराभि-
मुखमात्मानमकरोत् । अब्रवीच माम् – 'पत्रलेखे, वल्लभतया तस्मि-
न्स्थाने न तात:, नाम्बा, न महाश्वता, न मदलखा, न जीवितम्,
यत्र मे भवती । दर्शनात्प्रभृति प्रियासि । न जाने, केनापि कारणेना-
पहस्तितसकलसखीजनं त्वयि विश्व सति मे हृदयम् । कमपरमुपालभे ।
कस्य वान्यस्य कथयामि परिभवम् । केन वान्येन सह साधारणीकरोमि
दुःखम् । दुःखभारमिममसह्यं निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवि-
तेनैत्र शपामि ते । स्वदनापि विदितवृत्तान्तेनामुना जिहेमि, किमु-
तापरहृदयेन। कथमित्र मादृशी रजनिकर किरणावदातं कोलीनेन कुलं
कलङ्कयिष्यति । कुलक्रमागतां च लजां परित्यक्ष्यति । अकन्य-
कोचिते वा चापले चेत: प्रवर्तयिष्यति । साहं न संकल्पिता पित्रा ।
न दत्ता मात्रा । नानुमोदिता गुरुभिः । न किंचित्संदिशामि । न
किंचित्प्रेषयामि । नाकारं दर्शयामि । कातरेवानाथेव बटादव लिप्तेन
गुरुगर्हणीयता नीता कुमारेण चन्द्रापिीडेन । कथंय, महतां किमय-
माचार ? किं परिचयस्येदं फलम् ? यदेवमभिनवबिस किसलयत-
^न्तुसुकुमारं मे मनः परिभूयते । अपरिभवनीयो हि कुमारिकाजनो
यूनाम् । प्रायेण प्रथमं मदनानलो लजां दहति, ततो हृदयम् । आदौ
विनयादिकं 'कुसुमेषुशराः खण्डयन्ति, पश्चान्मर्माणि । तदामन्त्रये