This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१३५
 
ततः खल्वागते देवे. केयूरकेण सह प्रतिनिवृत्याहं तथैव
कुसुमशयनीयसमीपे समुपाविशम्। अतिष्टं च सुखं नवनवाननुभवन्ती
देवीप्रसादान् । किंबहुना । प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः,
करे करपल्लवः, नामाक्षरेषु वाणी, प्रीतौ हृदयम्, देव्याः सकलमेव तंतु
दिवसमभवत् । अपराहूणे च मामेवावलम्ब्य, निष्क्रम्य हिमगृहकात्,
संचरन्ती यदृच्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र
सुधाधवलां मरकतसोपानमालया प्रमदवनवेदिकामध्यारोहत् । तस्यां
च मणिस्थूणावष्टम्भा स्थिता । स्थित्वा च मुहूर्तमिव हृदयेन सह
दीर्घकालमवधार्य, किमपि व्याहतुमिच्छन्ती, निश्चलघृततारकेण निस्प-
न्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् ।
 
अथ मया विदिताभिप्रायया 'आज्ञापय' इति विज्ञापितं,
निजावयत्रैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलजयात्मप्रतिमाम पि
लिखितमणिकुडिमेन चरणाङ्गुष्ठेनापक्रमायेवामृशन्त्री, वनदेवताश्रव-
णशङ्कितेव मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति
स्म किंचिदपि लज्जाकलितगद्गदा गदितुम् । केवलं दुःखसहस्रगणनाय
मुक्ताक्षमालिकामित्र कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलै: शुचिभिरधो-
मुखी नयनजलबिन्दुभिर्दुर्दिनमदर्शयत् । तदा च तस्याः सकाशाद-
शिक्षतेव लज्जापि लज्जालीलाम्, विनयोऽपि विनयातिशयम्, मुग्ध-
तापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विला-
सोऽपि विलासम् । तथाभूता च 'देवि, किमिदम्' इति विज्ञापिता
मया, प्रमृज्य लोहितायमानोदरे लोचने, वेदिकाकुसुमपालिकाप्रथित-
कुसुममालामवलम्ब्य, समुन्नतैकलता मृत्युमार्गमिवालोकयन्ती, दीर्घ-