This page has not been fully proofread.

१३४
 
कादम्बरीसंग्रहः ।
 
विलासवतीभवन एव सर्वा: स्नानादिका : परवश एव क्रिया निरव-
र्तयत् । अपराहूणे निजमेव भवनमयासीत् । तत्र च रणरणकुविद्यमा-
नमानसः, कादम्बर्या विना न केवलमात्मानं स्वभवनमवन्तीनगरं सकल-
मेव महीमण्डलं शून्यममन्यत । ततो गन्धर्वराजपुत्रीवार्ताश्रवणोत्सुकैश्च
महोत्सवमिवेप्सितवरप्राप्तिकालमिव पत्रलेखागमनं प्रत्यपालयत् ।
 
ततः कतिपयदिवसापगमे मेघनाद: पत्रलेखामादायागच्छत् }
उपानयच्चैनाम् । कृतनमस्कारां च दूरादेव स्मितेन प्रकाशितप्रीतिश्च
न्द्रापीड, प्रकृतिवल्लभामपि कादम्बरीसकाशात्प्रसादलब्धापरसौभाग्या
मित्र वल्लभतरतामुपागतामुत्थायातिशयदर्शितादरमालिलिङ्ग पत्रले
खाम् । मेघनादं च प्रणतं पृष्ठे करकिसलयेन पस्पर्श । समुपविष्टश्चा-
ब्रवीत् - 'पत्रलेखे, कथय-तत्रभवत्या महाश्वेताया: समदलेखाया
देव्या: कादम्बर्याश्च कुशलम् ? कुशली वा सकलस्तमालिकाकेयूर-
कादि: परिजन: ?' इति । साब्रवीत् - 'देव, यथाज्ञापयसि, भद्रम् ।
त्वामयति खरीकृताञ्जलिना ससखीजना सपरिजना देवी काद
म्बरी' इत्येवमुक्तवती पत्रलेखामादाय, मन्दिराभ्यन्तरं विसर्जित-
1) राजलोको विवेश । तत्र चोत्ताम्यता मनसा धारयितुमपारयन्कुतू-
हलमतिप्रीत्या, दूरमुत्सारितपरिजनः प्रविश्य कस्यचित्पत्रमण्डपस्य
तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्याप्राक्षीत्--
'पत्रलेखे, कथय-कथमसि स्थित कियन्ति वा दिनानि? कीदृश।
वा देवीप्रसाद ? का वा गोष्ठ्यः समभवन् ? कीदृश्यो वा कथा:
समजायन्त ? को वातिशयेनास्मान्स्मरति ? कस्य वा गरीयसी प्रीति:?"
इत्येवं पृष्टा च व्यजिज्ञपत्–'देव, दत्तावध
'देव, दत्तावधानेन श्रूयताम्-
M
 
,