This page has not been fully proofread.

१३२
 
कादम्बरीसंग्रहः ।
 
सनानुगतां प्रसूता नेकापत्यामित्र दर्शयता, क्लेशमपि सर्वावयवज्वलित-
दीपिकादाहत्रणविभावित बहुमुखमिव प्रकटयता, शुष्कवनलतानिर्मित-
बृहत्कुसुमकरण्डकेन, वेणुलतारचितपुष्पपातनाङ्कुशिकेन, क्षणमप्य-
मुक्तकाल कम्बलखण्ड खोलेन, जरहू विडधार्मिकेणाधिष्ठितां चण्डिकामप-
"इयत् । तस्यामेव च वासमरचयत् ।
 
अथावतीर्य तुरगात्, प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणनाम ।
कृतप्रदक्षिणश्च पुनः प्रणम्य, प्रशान्तोदेशदर्शनकुतूहलेन परिभ्रमन्,
उच्चैरान्तमाकोशन्तं च कुपितं द्रविड धार्मिकमेकदेशे ददर्श । दृष्टा
च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानोऽपि सुचिरं जहास । न्यवारयच्च
तेन सार्वे संरब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथ-
मपि प्रियालापशतानुनयै: प्रशममुपनीय, क्रमण जन्मभूमि जाति
विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रवज्यायाश्च कारणं स्वय-
मेव पप्रच्छ । पृष्टश्वासाववर्णयदात्मानम् । अतीतस्वशौर्यरूपविभववर्ण-
नवाचालेन तेन सुतरामरज्यत राजपुत्रः । विरहातुरहृदयस्य तच्चरितं
विनोदमतामिवागात् । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् ।
 
अस्तमुपगते च भगवति सप्तसप्तौ, क्षितितललुठनपांसुलसटा-
वधूननानुमितोत्साहेषु पीतोदकेषु स्नानाईपृष्टतया विगतश्रमेषु पुरोनि-
खातकुन्तयष्टिषु संयतेषु वाजिषु, चन्द्रापीड परिजनेनैकदेशे संयत-
स्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारनिवेदितं शयनीयमगात् । निष-
ण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखोसिका हृदयम् । अरतिगृहीतच %
विसर्जयांबभूव राजलोकम् । अतिवल्लभानपि नाललाप पार्श्वस्थान् ।
निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किंपुरुपविषयम् । अनन्यचेता
 
"