This page has not been fully proofread.

परदे कामहः ।
 
अवलम्बमानदीपघूम-
पिष्टपिण्डप्राण्डुरितघनघण्ठा-
तण्डल प
 
शाखान्तरालनिरन्तरनिलीनरक्तकुक्कुटकुलैश्च भयादकालदर्शितकुसुम-
स्तबकैरिव रक्ताशोकविटपैर्विभूषिताङ्गणाम्
रक्तांशुकेन प्रथितशिखिगलवलयावलिना
मालभारिणा त्रापुषसिंहमुखमध्य स्थित स्थूललोहकण्टकदत्तदन्तदण्डा-
र्गलं लसत्पीतनीललोहितदर्पणस्फुरितमालं कपाटपट्टद्वयं दधा-
नेन गर्भगृहद्वारदेशेन दीप्यमानाम्, पतितकृष्णचामरप्रतिबिम्बानां
च शिरश्छेदलग्नकेशजालकानामिव परशुपशिप्रभृतीनां जीवविशसन-
शस्त्राणां प्रभाभिर्बद्रबहलान्धकारतया पातालनिवासिनीमिवोपलक्ष्य-
है:
 
माणाम् रक्तचन्दनखचितरफुरत्फलपल्लवकृतैिश्च बिल्वपत्रदामभि-
बोलकमुण्डमालम्बैरिव कृतमण्डनाम्, प्रलम्बकूर्चधरैश्छागैरपि धृत-
व्रतैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव ज्वलितलोहित-
मूर्धरत्नरश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम्,
सर्वत: कठोरं वायसगणेन च रटता स्तुतिपरेणेव स्तूयमानाम्, स्थूल-
स्थूलै : सिराजादकैर्गोधागोलिकाककलासकुलैरिव दग्धस्थाण्वाशङ्कया
समारूढैर्गवाक्षिदेन, अलक्ष्मीसमुत्खात लक्षणस्थानैरिव विस्फोटव्रण-
बिन्दुभि: कत्माषितसकलशरीरेण, अम्बिकापादपतनश्यामललाटवर्ध-
मानार्बुदेन, कुबा दिदत्तसिद्धाञ्जनस्फुटितैकलोचनतया त्रिकालमितर-
"लोचनाञ्जनदानादरश्लक्ष्णीकृतदारुशलाकेन, प्रत्यहं कटुकालाबुस्वेदप्रार-
दन्तुरताप्रतीकारेण, कथंचिदस्थानदत्तेष्टकाप्रहारतया शुष्कैकमुजो-
पशान्तमर्दनव्यसनेन, सूचीस्यूत सिरासंकोचितवा मकराङ्गुलिना, अस-
म्यक्तरसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधिराज्य-
चरप्रार्थनाकदर्शितदुर्गेण दुःशिक्षितश्श्रमणादिष्टतिलकाबद्ध विभवप्रत्या-
नितिगत
 
,
 
"
 
#