This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१२७.
 
,
 
धाय, पुनः स्कन्धावारमेवाजगाम । प्रविशन्नेव पितु: समीपादागतम-
भिजाततरमालेखहारकमद्राक्षीत् । धृततुरंगमश्च प्रीतिविस्फारितन
चक्षुषा दूरादेवापृच्छत् – 'अङ्ग, कञ्चित्कुशली तात: सह सर्वेण
परिजनेन, अम्बा च सर्वान्तः पुरैः' इति ।
 
अथासावुपसृत्य प्रणामानन्तरम् 'देव, यथाज्ञापयसि' इत्यभिवाय,
लेखद्वितयमर्पयांबभूव । युवराजस्तु शिरसि कृत्वा, स्वयमेत्र च तदु-
-
न्मुच्य, क्रमश: पपाठ - 'स्वस्त्युजयिनीत: परममाहेश्वरी महाराजा-
धिराजो देवस्तारापीड: सर्वसंपदामायतनं चन्द्रापीडमुत्तमाङ्गे चुम्बन्न-
न्दयति । कुशलिन्य: प्रजा: । किंतु कियानपि कालो भवतो दृष्टस्य
गतः । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्तः पुरै निमुप-
नीता । अतो लेखवाचनविरतिरेव प्रयाणकालतां नेतव्या' इति ।
शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थे लिखितमवाचयत् । अस्मिन्नेवाव-
सरे समुपसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयम स्मादभिन्नार्थमे-
वादर्शयत् ॥
 
है
 
अथ 'यथाज्ञापयति तात:' इत्युक्त्वा, तथैव च तुरगाधिरूढः
प्रयाणपटहमवादयत् । समीपे स्थितं च महताश्वीयेन परिवृतं महाब-
लाधिकृतं बलाहकपुत्रं मेघनादनामानमादिदेश–"भवता पत्रलेखया
सहागन्तव्यम् । नियतं च केयूरकस्तामा दायैतावती भूमिमागमिष्यति ।
तन्मुखेन च विज्ञापया प्रणम्य देवी कादम्बरी - 'नन्वियं सा त्रिभुवन-
निन्दनीया निरनुरोधा निष्परिचया दुर्गुहा प्रकृतिर्मर्त्यानाम् येषामका-
ण्ड विसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलताम् । एवं
गच्छता मयात्मनो नीत: स्नेह कपटकुटजालिकताम् । प्रापिता
 
w