This page has not been fully proofread.

१२६
 
कादम्बरीसंग्रहः ।
 
गाढसंतापया च दृष्ट्या वहसि स्थलकमलिनीमिव रक्ततामरसाम्
दुःखितायां च त्वयि परिजनेऽपि चानवरतकृताश्रुबिन्दुपातेन वर्तते
मुक्ताभरणता । गृहाण स्वयंवरार्हाणि मङ्गलप्रसाधनानि । सकुसुम-
शिलीमुखा हि शोभते नवा लता' इति ।
 
अथ कादम्बरी बालतया स्वभावमुग्धापि, कन्दर्पेणोपदिष्टयेव
प्रज्ञया तमशेषमस्याव्यक्तव्याहारसूचितमर्थ मनसा जगाह । मनोरथानां
तु तावती भूमिमसंभावयन्ती, शालीनतां चावलम्बमाना, तूष्णीमेवा-
सीत् । केवलमुत्पादितान्यव्यपदेशा तत्क्षणं स्मितालोकमकरोत् । ततो
मदलेखा प्रत्यवादीत् – 'कुमार, किं कथयामि । दारुणोऽयमकथनीय:
स्खलु संतापः । अपि च, कुमारभावोपेताया: किमिवास्या:, यन्त्र संता-
पाय । तथा हि — मृणालिन्या: शिशिरकिसलयमपि हुताशमायते ।
ज्योत्स्नाण्यातपायते । ननु किसलयतालवृन्तवातैर्मनसि जायमानं किं
न पश्यसि खेदम् । वीरत्वमेव प्राणसंधारणहेतुरस्याः' इति । काद-
म्बरी तु हृदयेन तमेव मदलेखालापमस्य प्रत्युत्तरीचकार । चन्द्रापीडो-
ऽप्युभयथावटमानार्थतया संदेहदोलारूढेनैव चेतसा महाश्वेतया सह
प्रीत्युपचयचतुराभिः कथाभिर्महान्तं कालं स्थित्वा, तथैव महता यत्नेन
मोचयित्वात्मानम्, स्कन्धावारगमनाय कादम्बरीभवना निर्ययौ ।
 
6"
 
निर्गतं च तुरंगममारुरुक्षन्तं पश्चादागत्य केयूरकोऽभिहितवान् -
देव, मदलेखा विज्ञापयति — — देवी कादम्बरी प्रथमदर्शनजनित-
प्रीति: पत्रलेखां निवर्समानामिच्छति, पश्चाद्यास्यति' इति श्रुत्वा देव:
प्रमाणम्" इत्याकर्ण्य चन्द्रापीड : 'केयूरक, वन्या स्पृहणीया च पत्र-
लेखा, यामेत्रमनुबध्नाति दुर्लभो देवीप्रसादः । प्रवेश्यताम्' इत्यभि-
VI