This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१२५
 
स्वेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, चक्षुषा क्षर-
न्ती शिशिरमानन्दजलम्, किंचिदधोमुखी, तत्क्षणमपाङ्गभागपु-
जिततारकया तन्मुखलग्नयेव दीर्घया दृष्टयाकृष्यमाणा, कुसुमशयना-
दुत्तस्थौ । चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणाम-
पुरःसरं दर्शित विनयः प्रणाम । कृतप्रतिप्रणामायां च तस्यां पुनस्त-
स्मिन्नेव कुसुमशयने समुपविष्टायाम्, प्रतीहार्या समुपनीतां जाम्बूनद-
मयीमासन्दिकां पादेनैत्रोत्सार्य, क्षितावेवोपाविशत् ।
 
अथ केयूरकः 'देवि, देवस्य चन्द्रापीडस्य प्रसादभूमिरेषा पत्र-
लेखा नाम ताम्बूलकरङ्कवाहिनी' इत्यभिधाय पत्रलेखामदर्शयत् ।
अथ कादम्बरी दृष्टा ताम्, 'अहो मानुपीषु पक्षपात: प्रजापतेः' इति
चिन्तयांबभूव । कृतप्रणामां च तां सादरम् 'एह्येहि' इत्यभिधाय,
आत्मन: समीपे सकुतूहलं परिजनेन दृश्यमानां पृष्ठतः समुपावेशयत् ।
दर्शनादेवोपारूढ प्रीत्यतिशया च मुहुर्मुहुरेनां सोपग्रहं करकिसलयेन
पस्पर्श ।
 
चन्द्रापीडस्तु सपदि कृतसकलागमनोचितोपचार: तदवस्थां
चित्ररथतनयामालोक्याचिन्तयत् 'अतिदुर्विदग्धं हि मे हृदयम-
द्यापि न श्रद्दधाति । भवतु पृच्छामि तावदेनां निपुणालापेन'
इति । प्रकाशमब्रवीत् - देवि, जानामि, कामरति निमित्ती-
कृत्य प्रवृत्तोऽयमविचलसंतापतन्त्रो व्याधिः । सुतनु, सत्यम्, न तथा
त्वामेष व्यथयति, यथास्मान् । इच्छामि देहदानेनापि स्वस्थामत्र-
भवतीं कर्तुम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषु पीडया पतिता-
मवेक्षमाणस्य पततीव में हृदयम् । अनङ्गदे तनुभूते ते भुजलते ।
 
5