2023-02-19 13:23:13 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
कृतशिरोत्रष्टनः, संपादितपितृजलक्रियो मन्त्रपूतेन तोयाञ्जलिना दिव-
सकरम भिप्रणम्य देवगृहमगमत् । उपरचितपशुपतिपूजनश्च निष्क्रम्य
देवगृहान्निर्त्रर्तिताग्निकार्यो विलेपनभूमौ मृगमदकर्पूरकुङ्कुमवाससुरभिणा
चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालतीकुसुमशेखरः कृताम्बरप-
रिवर्ता रत्नकर्णपूरमात्राभरण: समुचितभोजनैः सह भूपतिभिराहार-
मभिमतरसास्वादजातप्रीतिरवनिपो निर्वर्तयामास....
परिपीतधूमवर्तिरूपस्य च गृहीतताम्बूलस्तस्मात्प्रभृष्टमणि-
कुट्टिमात्प्रदेशादुत्थाय, नातिदूरवर्तिन्या ससभ्रमप्रधावितया प्रतीहार्या
प्रसारित बाहुमवलम्ब्य, अभ्यन्तरसंचारसमुचितेन परिजनेनानुगम्य-
मान:, धवलांशुकजवनिकापरिगतपर्यन्ततया स्फटिकमणिमयभित्ति-
बद्धमित्रोपलक्ष्यमाणम्, अतिसुरभिणा मृगनाभिपरिगतनामोदिना चन्द-
नवारिणा सिक्तशिशिरमणिभूमिम् उत्कीर्णसालभञ्जिकानिवहेन गन्ध-
सलिलक्षाढितेन्, कलधौतमयन स्तम्भसंचयेन विराजमानम्, कुसुमा-
मोदवासितप्रच्छदूपटेन पट्टोपधानाध्यासितशिरोधाम्ना शयनेन सनाथी-
कृतवेदिकमा स्थानमण्डपमयासीत् । तत्र च शयनतलनिषण्णः क्षिति-
तलोपविष्टया शनैः शनैरुत्सङ्गनिहितासिलतया खडवाहिन्या नव-
नलिनदलफोमलेन करसंपुटेन संवाह्यमानचरणस्तत्कालोचितदर्शनै-
रत्रनिपतिभिरमात्यैर्मित्रैश्च सह तास्ता: कथा: कुर्वन्मुहूर्तमिवासांचक्रे ।
ततो नातिदूरवर्तिनीम् 'अन्त पुराद्वैशम्पायनमादायागच्छ' इति समु-
पजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतीहारीमादिदेश ।
4
अथ मुहूर्तादिव वैशम्पायन: प्रतीहार्या गृहीतपञ्जर: कनक-
वेत्रलतावलम्बिना किंचिदवनतपूर्वकायेन सितकञ्जुकावच्छन्नवपुषा
B
M