This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१२३
 
अत्र स्नातम्, अत्र भगवानचितः शूलपाणिः, अत्र भुक्तम् अत्र
-सुप्तम् ? इति परिजनैन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिह्नानि
पश्यन्ती, क्षपितवती दिवसम् । दिवसावसाने च कथमपि महाश्वे-
ताप्रयत्नादनभिमतमपि तस्मिन्नेव स्फटिकमणिवेश्मन्याहारमकरोत् ।
अस्तमुपगते च भगवति रत्रौ, उदिते चन्द्रमसि, तत्रैव कंचित्कालं
स्थित्वा, करौ कपोलयो: कृत्वा किमपि चिन्तयन्ती, मुकुलितेक्षणा
क्षणमात्रं स्थित्वा, उत्थाय कृच्छ्रादुत्क्षिपन्ती पदानि शय्यागृहमगात् ।
शयननिक्षिप्तगात्रयष्टिश्च ततः प्रभृति प्रवलया शिरोवेदनया विचेष्टमा
ना, दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना, केनाप्याधिना
मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्धमनिमीलितलोचना दुःखदु:-
खेन क्षणदामनैषीत् । उपसि च मामाहूय देवस्य वार्ताव्यतिकरो-
पलम्भाय सोपालम्भमादिष्टवती' ।
 
M
 
Nima q
 
424710
 
चन्द्रोपीडस्तदाकर्ण्य जिगमिषु: 'अश्वोऽश्वः' इति वदन्, भवना-
निर्ययौ । आरोपित पर्याणंच त्वरिततुरगपरिचारकोपनातमिन्द्रायुध-
मारुह्य, पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे स्थापयित्वा वैशम्पा-
यनम्,, अशेषं परिजनं निवर्स च, अन्यतुरगारूढेनैव केयूरकेणा-
-नुगम्यमान:, हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमव-
ततार । अवतीर्य च द्वारपालार्पिततुरंग: कादम्बरीप्रथमदर्शनकुतूह -
लिन्या चे पत्रलेखयानुगम्यमानः प्रविश्य, 'कत्र देवी कादम्बरी ति-
प्रति' इति संमुखागतमन्यतमं वर्षवरमप्राक्षीत् । कृतप्रणामेन च
तेन 'देव, मत्तमयूरस्य क्रीडापर्वतकस्यावस्तात्कमलव नदीर्घिकातीरे
विरचितं हिमगृहमध्यास्ते' इत्यावेदिते, केयूरकेणोपदिश्यमान वर्त्मा