This page has not been fully proofread.

१२०
 
कादम्बरीसंग्रहः ।
 
P4
 
स्तैरनुगम्यमान:, हेमकूटात्प्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथत -
नया न केवलमन्त:, बहिरपि सैव सर्वाशानिबन्धनमासीत् । क्रमेण च
प्राप्य महाश्वेताश्रमम्, अच्छोदसरस्तीरे संनिविष्टमिन्द्रायुधखुरपुटानुसा-
रेणैवागतमात्मस्कन्धावारमपश्यत् । निवर्तिताशेषगन्धर्व कुमारश्च, सान-
न्देन सकुतूहलेन सविस्मयेन च स्कन्धावारवर्तिना जनेन प्रणम्य-
मान:, स्वभवनं विवेश । संमानिताशेषराजलोकश्च वैशम्पायनेन
पत्रलेखया च सह 'एवं महाश्वेता, एवं कादम्बरी एवं मदलेखा,
एवं तमालिका, एवं केयूरकः' इत्यनयैव कथया प्रायो दिबसमनै-
षीत् । कादम्बरीरूपदर्शन विद्विष्टेव नास्य पुरेव प्रीतिमकरोद्राजलक्ष्मीः ।
तामेव च धवलेक्षणामाबद्धरणरणकेन चेतसा चिन्तयतो जाग्रत एव
सा जगाम रात्रि: ।
 
,
 

 
अपरेयुश्च समुत्थिते भगवति खौ, आस्थानमण्डपगतः, तद्गतेनैव
मनसा सहसैव प्रतीहारण सह प्रविशन्तं केयूरकं ददर्श । दूरादेव च
क्षितितलस्पर्शिना मौलिना कृतपादपतनम् 'ह्येहि' इत्युक्त्वा प्रथम-
मपाङ्गं विसर्पिणा चक्षुषा, ततो हृदयेन पश्चाद्भुजाभ्यां प्रधावित:
प्रथितं तमालिलिङ्ग गाढम् । उपावेशयच्चैनमान्मन: समीप एव । पप्रच्छ
च - 'केयूरक, कथय, कुशलिनी देवी ससखीजना कादम्बरी 'भग-
वती महाश्वेता च?" इति । असौ तु तेन राजसूनो: प्रीतिप्रकर्षजन्मना
स्मितेनैव स्नपित इवानुलिप्त इव सद्य एवापरताव्यस्वेदः प्रणम्यादृत-
तरमत्रोचत् - 'अद्य कुशलिनी, यामेवं देव: पृच्छति' इत्यभिधाय,
अपनीयाद्रवस्त्रकर्पटावगुण्ठितं बिससूत्रसंयत मुखमार्द्रचन्दनपङ्कन्यस्त -
बालमृणालवलयमुद्रं नलिनीपत्रपुटमदर्शयत् । उद्घाट्य च तत्र काद-
ald