This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
११९
 
नाभिस्तापसीभिरुपास्मानाम् अन्तःपुराभ्यर्हिताश्च सादरं नमस्कारै-
राभाषणैरभ्युत्थानैरासन्नवेत्रासनदानैश्च संमानयन्तीं महाश्वेताम्, पृष्ठ-
तश्च समुपत्रिष्टेन किंनरमिथुनेन मधुकरमधुराभ्यां वंशाभ्यां दत्ते
ताने, कलगिरा गायन्त्या नारददुहित्रा पठ्यमाने च सर्वमङ्गलमहीयसि
महाभारते दत्तावधानां कादम्बरीम् । समुपसृत्य कृतनमस्कार, तस्या-
'मेत्र सुधावेदिकायां विन्यस्तमासनं भेजे । स्थित्वा च कंचित्कालम्,
महाश्वेताया वदनं विलोक्य, स्फुरितकपोलोदरं मन्दस्मितमकरोत् ।
असौ तु तातैव विदिताभिप्राया कादम्बरीमब्रवीत् - 'सखि, भवत्या
गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैराकृतो न शक्नोति वक्तुम् ।
जिगमिषति खलु कुमार । पृष्ठतो दुःखमविदितवृत्तान्तं राजचक्र-
मास्ते। अपि च, युवयोर्दूरस्थितयोरपि स्थितेयमिदानीं कमलिनी-
कमलबान्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिरा प्रलयात् ।
अतोऽभ्यनुजानातु भवती' इति ।
 
अथ कादम्बरी 'सखि, स्वाधीनोऽयं सपरिजनो जनः कुमा-
रस्य स्व इवान्तरात्मा । कइयात्रानुरोवः' इत्यभिधाय, गन्धर्वकुमा-
· रानाहूय 'प्रापयत कुमारं स्वां भूमिम्' इत्यादिदेश । चन्द्रापीडो-
ऽध्युत्थाय प्रणम्य प्रथमं महाश्वेताम्, ततः कादम्बरीम् तस्याश्च
प्रेमस्निग्वेन चक्षुषा मनसा च गृह्यमाणः, 'देवि, किं ब्रवीमि । बहु-
भाषिणो न श्रद्दधाति लोकः । स्मर्तव्योऽस्मि परिजनकथासु' इत्य-
भिधाय, कन्यकान्तः पुरान्निर्जगाम । कादम्बरीवर्जमशेषकन्यकाजनो
-गुणगौरवाकृष्टः परवश इव तं व्रजन्तमा बहिस्तोरणादनुवत्राज ।
निवृत्ते च कन्यकाजने, केयूरकेणोपनीतं वाजिनमारुह्य, गन्धर्वकुमारकै-