This page has not been fully proofread.

११८
 
कादम्बरीसंग्रहः ।
 
मिदम्, एतज्जीवितम्, एतानीन्द्रियाणि; एतेषामन्यतरदारोपय परिग्रहेण
गरीयस्त्वम्' इति। अथैवंत्रादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मित-
मवादीत् –'कुमार, भवतु, अतियन्त्रणया खिद्यते खलु सखी काद-
म्वरी । किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचनमनया परिगृही-
तम् । किं पुनरमुनोपचारफल्गुना वचसा संदेहदोलामारोप्यते' इति ।
 
wy
 
स्थित्वा च कंचित्कालं कृतप्रस्तावा, 'कथं राजा तारापीड:,
कथं देवी विलासवती, कथमार्य शुकनासः कीदृशी चोज्जयिनी,
कियत्यध्वनि सा च, कीदृग्भारतं वर्षम्, रमणीयो वा मर्त्यलोकः' इत्य-
शेषं पप्रच्छ । एवंविधाभिश्च कथाभि: सुचिरं स्थित्वोत्थाय, कादम्बरी
केयूरकं चन्द्रापीड समीपशायिनं समादिश्य परिजनं च, शयनसौधशि-
खरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्णे शयनीयमलंचकार ।
चन्द्रापीडोsपि तस्मिन्नेत्र शिलातले निरभिमानतामभिरूपतामतिगम्भी-
रतां च कादम्बर्या:, निष्कारणवत्सलतां च महाश्वेतायाः, सुजनतां
च मदलेखायाः, महानुभावतां च परिजनस्य अतिसमृद्धिं च गन्धर्व-
राजलोकस्य, रम्यतां च किंपुरुपदेशस्य मनसा भावयन्, केयूरकंण
संवाह्यमानचरणः क्षणादिव क्षणदां क्षपितवान् ।
 
.
 
अथ समुद्गते सवितरि, शिलातलादुत्थाय चन्द्रापीड: प्रक्षालित-
मुखकमल: कृतसंध्यानमस्कृति: गृहीतताम्बूल: 'केयूरक, विलोकय,
देवी कादम्बरी प्रबुद्धा न वा । क्व वा तिष्ठति' इत्यवोचत् । गतप्रति-
निवृत्तेन च तेन 'देव, मन्दरप्रासादस्याधस्तादङ्गणसौधवेदिकायां
महाश्वेतया सहावतिष्ठते' इत्यावेदिते, गन्धर्वराजतनयामालोकयितु-
माजगाम । ददर्श च जटाजिनमौजीवल्कलापाढधारिणीभिर्वर्णिचि-
-