This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
११७
 
अथ शनैः शनैरदर्शनमुपगते भगवति गभस्तिमालिनि, जातायां
चादर्शनक्षमायां वेलायाम्, सौधशिखरादवततार कादम्बरी, क्रीडा-
पर्वतकनितम्बाच चन्द्रापीड । उच्छूिते च ततो नचिरादिव कुसु-
मायुधाधिराज्यैकातपत्रे श्वेतभानौ, चन्द्रापीडो गृहकुमुदिन्यास्तीरे
हरिचन्दनरसै: प्रक्षालितं कादम्बरीपरिजनोपदिषं मुक्ताशिलापट्टं चन्द्र-
शीतलमधिशिश्ये । तत्रस्थस्य चास्यागल्याकथयत्केयूरक :- 'देवी काद-
म्वरी देवं द्रष्टुमागता' इति ।
 
अथ चन्द्रापीड: ससंभ्रममुत्थाय, आगच्छन्तीम्, अल्पसखीजन-
परिवृताम्, अपनीताशेषराजचिह्नाम्, इतरामिवैकावलीमात्राभरणाम्,
मदलेखया दत्तहस्तावलम्बा कादम्बरीमपश्यत् । आगल च प्रीति-
पेशलतां दर्शयन्ती प्राकृतेव परिजनोचिते भूतले सा समुपाविशत् ।
चन्द्रापीडोsपि "कुमार, अध्यास्यता शिलातलमेव' इत्यसकृदनु-
बध्यमानोऽपि मदलेखया भूमिमेवाभजत । सर्वासु चासीनासु मुहूर्त-
मिव स्थित्वा, मुपचक्रमे चन्द्रापीड: 'देवि, दृष्टिपातमात्रप्रीत
दासजने संभाषणादिकस्यापि प्रसादस्य नास्त्यवकाश: । किमुतैता-
वतोऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमव-
लोकयामि, यस्यायमनुरूपोऽनुग्रहातिरेकः । अतिसरलता तवेयमप-
गताभिमानमधुरा च सुजनता यदभिनवसेवकजनेऽध्येवमनुरुध्यते ।
प्रायेण मामुपचारहार्यमदक्षिणं देवी मन्यते । धन्यः खलु परिजनस्ते.
यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिते भृत्यजने क
इवादरः । परोपकारोपकरणं शरीरम् । तृणलवलघु च जीवितम् ।
अपत्रपे त्वत्प्रतिपत्तिमिरुपायनीकर्तुमेवमागतायास्ते । वयमेते, शरीर-
-