This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
११५
 
भाति । तथा हि-संभाषणमध्यधःकरणमिवापतति । आदरोऽपि प्रभु-
ताभिमानमिवानुमापयति । स्तुतिरयात्मोत्सेकमिव सूचयति । उप-
चारोऽपि चपलतामिव प्रकाशयति । प्रीतिररायनात्मज्ञतामिव ज्ञाप-
यति । विज्ञापनापि प्रागल्भ्यमिव ज्ञायते । सेवापि चापलमिव
दृश्यते । दानमपि परिभव इव भवति । अपि च, स्वयंगृहीतहृदयाय
कि दीयते । जीवितेश्वराय कि प्रतिपाद्यते । प्रथमकृतागमनमहोप-५
कारस्य का ते प्रत्युपक्रिया । दर्शनदत्तजीवितफलस्य सफलमागमनं
केन ते क्रियते । प्रणयितां चानेन व्यपदेशेन दर्शयति कादम्बरी, न
विभवम् । अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । आस्तां
तावद्विभवः । भवादृशस्य दास्यमध्यङ्गीकुर्वाणा नाकार्यकारिणीति
नियुज्यते । दत्त्वात्मानमपि वञ्चिता न भवति । जीवितमप्यर्पयित्वा
न पश्चात्तप्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती
महत्ता सताम् । न च तादृशी भवति याचमानानाम्, यादृशी
ददता लज्जा । यासत्यममुना व्यतिकरेण कृतापराधमिव त्वय्यात्मा- 7
नमवगच्छति कादम्बरी । तदयममृतमथनसमुद्भूतानां सर्वरत्नानामेकः
शेष इति शेषनामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भसां पल्मा
गृहमुपगताय प्रचेतसे दत्त: पाशभृतापि गन्धर्वराजाय, गन्धर्व-
राजेनापि कादम्बर्ये, तयापि त्वद्वपुरस्यानुरूपमाभरणस्येति विभाव-
यन्त्या, नम:स्थलमेवोचितं सुधासूतेर्धाम न धरेत्यवचार्यानुप्रेषितः ।
यद्यपि निजगुणगणाभरणभूषिताङ्गयष्टयो भवादृशाः केशहेतुमितरज-
नबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरी प्रीतिरत्र कार-
णम्। किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्याः सहज ह
 
40
 
4